This page has not been fully proofread.

न्यायकोशः ।
 
829
 
-
 
भूतकालः -[ क ] यत्प्रध्वंसेन यः कालोबच्छिद्यते स तस्यातीतकालः
(बै० उ० २१२१८ ) । [ ख ] तद्व्यक्तिध्वंसविशिष्ट: कालस्तब्यक्तेरती-
तकाल : ( त० प्र० ) ( त० कौ ० ) । [ग] ] वर्तमानध्वंसप्रतियोग्यव-
च्छिन्नः कालः (प० मा ० ) । यथा गतः स कालो यत्रासीदवज्ञा कल्पशा-
खिनाम् । उदुम्बरफलेभ्योपि स्पृहयामोधुना वयम् ॥ इत्यादावतीतकालः ।
भूतत्वं च विद्यमानध्वंसप्रतियोगित्वम् । यथा अपाक्षीदित्यादौ लु
भूतत्वम् ( न्या० म० ख० ४ पृ० २४ ) ( ल० म० ) ( तर्का ० ४ ) ।
अत्र उत्पत्तिः भूतत्वं च लुडोर्थः । भूतत्वं चोत्पत्तावन्वेति । तथा च
विद्यमानध्वंस प्रतियोग्युत्पत्तिकत्वं लब्धम् (तर्का० ४ पृ० ११) ।
 
चि० पृ० ३७ ) । २ पृथिव्यादीनि पञ्च
बहिरिन्द्रियग्राह्यविशेषगुणवत्वम् ( गौ०
 
भूतम् – १ पञ्चमी तिथि: ( पु०
भूतानि । भूतत्वं च [ क ]
वृ० १ । १ । १३ ) ( न्या० बो० ) ( ग० चतु० ) (मु० १ साधर्म्य
पृ० ५८) । अत्र पदप्रयोजनादिविशेष उच्यते । आत्मन्यतिव्याप्तिवारणाय
बहिः पदम् । बहिरिन्द्रियग्राह्यजातीयसंयोगादिमति कालादावतिव्याप्तिबा-
रणाय विशेष इति । द्रव्यत्वमादायातिव्याप्तिवारणाय गुण इति ( दि०
१ साधर्म्यनि० पृ० ५८) । [ख ] आत्मावृत्तिविशेषगुणवत्त्वम् (मु० १
साधर्म्यनि०
० पृ० ५८ ) । अत्र कल्पे दैशिकपरत्वापरत्वमादाय मनस्यति-
व्याप्तिवारणाय विशेष इति पदं दत्तम् (दि० १ साधर्म्य० पृ० ५९) ।
यथा पृथिव्यादीनां पञ्चानां भूतत्वम् (भा०प० श्लो० २६ ) । पृथिव्या-
दीनि च पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ( गौ० १ । १ । १३ ) ।
भूतानां विशेषगुणास्तु शब्दस्पर्शरूपरसगन्धा भूतगुणाः स्मृताः इति ।
भूतानामे के कविशेषगुणा उक्ता यथा आकाशस्य गुणः शब्दः । वायोः
स्पर्शः । तेजसो रूपम् । जलस्य रसः । भूमेर्गन्धः (गौ० ११ १/१४ )
( शा० ति० ) इति । सांख्यास्त्वन्यथाङ्गीचक्रुः शब्दैकगुण आकाश:
शब्दस्पर्शगुणो मरुत् । शब्दस्पर्श रूपगुणैत्रिगुणं तेज इष्यते ॥ शब्दस्पर्श-
रूपरसैरापो ज्ञेयाश्चतुर्गुणाः । शब्दस्पर्श रूपरसगन्धैः पञ्चगुणा मही ॥