2023-02-20 00:56:11 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
बोध्यम् ( भा०प० ) ( त० सं० ) । अत्र भाष्यम् । भावनासंज्ञक -
स्त्वात्मगुणः दृष्टश्रुतानुभूतेष्वर्येषु स्मृतिप्रत्यभिज्ञान हेतुः ज्ञानमददुःखा-
दिविरोधी पटु अभ्यास आदर एतन्त्रिविधप्रत्ययजः । तत्र पटुप्रत्ययजो
यथा पटुप्रत्ययापेक्षादात्ममनसोः संयोगादाश्चर्येर्थे पटुः संस्कारो जायते ।
यथा दाक्षिणात्यस्योष्ट्रदर्शनात् । अभ्यासप्रत्ययजो यथा शिल्पविद्याक्रिया-
व्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणा दुत्तरो-
त्तरस्मात् प्रत्ययादात्ममनसोः संयोगात् संस्कारातिशयो जायते । आदर-
प्रत्ययजो यथा प्रयत्नेन मनश्चक्षुषि स्थापयित्वा अपूर्वमर्थ दिदृक्षमाणस्य
विद्युत्संपात दर्शन वदादर प्रत्ययः उत्पद्यते । तमपेक्षमाणादात्ममनसोः संयो-
गात्संस्कारातिशयो जायते । यथा देवहदे सौवर्णराजतपद्मदर्शनात्
( प्रशस्त ० २५० ३४) इति । अत्रेदं बोध्यम् । उपेक्षानात्मकेन निश्चयेन
( अनुभवेन ) यः संस्कारो जायते स एवोद्बुद्धः स्मृतिजनकः । उपेक्षा-
त्मकनिश्चयजन्यस्तु न स्मृतिं जनयतीति । संस्कारोयमपि सविषयकः ।
संस्कारश्चान्त्यस्मृत्युत्पादनेन रोगेण कालविशेषेण वा नश्यति । केचित्तु
समानविषयस्मृत्या स नश्यति इत्या ( त० व० पृ० २३१ )
( मु० स्मृतिनि० पृ० १९० ) । [ख ] पूर्वानुभूत वस्तुनः स्मृतिहेतुः
संस्कार : ( त० प्र० ) ( त० कौ० ) । [ग] ज्ञानजः संस्कारः ।
२ कृत्यपरनामा प्रयत्नः ( त० प्र० ख० ४ पृ० ८१ ) । यथा चैत्र-
स्तण्डुलं पचतील्यादावाख्यातार्थः प्रयत्नो भावना । अत्रायं नियमः
भावनान्वयिन्येव संख्याया अन्वयः इति । तेन कृष्णेन स्थीयते इत्यादौ
भावनाया अनन्वयेन संख्याया अप्यनन्वयेपि न क्षतिः इत्यषधेयम्
( त० प्र० ख० ४ पृ० ८१ ) । ३ शाब्दिकास्तु धातुवाच्यो व्यापारो
भावना । यथा पचतीत्यादावधःसंतापनादिरूपव्यापार इत्याहुः ।
पचति पाकमुत्पादयति इत्यस्य पाकानुकूला भावना तादृश्युत्पादना इति
विवरणात् विनियमाणस्यापि तद्वाचकता इति भावः । अत्राधःसंतापनत्व-
फूत्कारत्व चुल्लयु परिधारणत्वयत्नत्वादिमिर्बोधः सर्वसिद्धः । अत्रोक्तं भर्तृ-
हरिणा व्यापारो भावना सैवोत्पादना सैव च क्रिया । कृञोकर्मकतापत्तेर्न
हि यत्नोर्थ इष्यते ॥ ( वै० सा० धात्व० पृ० ५०-५१ ) इति ।
(
७९ न्या० को०