2023-02-20 00:56:10 by ambuda-bot
This page has not been fully proofread.
६२०
न्यायकोशः ।
बोधितोर्थः (औपचारिकः ) । ३ भक्तमन्नम् तत्संबन्धि भाक्तम्
इति काव्यज्ञा आहुः ।
-
भागः – १ पक्षतावच्छेदकाश्रयो यः कश्चन पक्षैकदेशः । यथा भागासिद्धि-
रित्यादौ । २ स्वत्वाश्रयः ( धनम् ) । यो मां प्रति स्यात् इत्यादौ । अत्र
भागः ( स्वत्वाश्रयः ) प्रत्याद्यर्थः । तदन्वयी संबन्धो द्वितीयार्थः । इत्थं
च अस्मसंबन्धी यो भागः स्यात् इति बोध: ( ग० व्यु० का० २
ख० २ पृ० ७६ ) । ३ एकदेशः । ४ त्रिंशांशकस्तथा राशेर्भाग
इत्यभिधीयते इति ज्योतिषज्ञा आहुः । ५ पूर्वाफाल्गुनी नक्षत्रम् इति
मौहूर्तिका आहुः । ६ एकादशसंख्या इति गणका आहुः ।
भागवतम् – १ मोक्षप्रदश्रीभगवज्ज्ञानभक्तित्रैराग्यप्रतिपादको महापुराण-
विशेषः । यथा यैर्न श्रुतं भागवतं पुराणम् ( भाग० ) पिबत भागवतं
रसमालयम् ( भाग १ । १ । ३ ) इत्यादौ । तथोक्तं श्रीमद्भागवते धर्मः
प्रोज्झित कैतवोत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं
तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किंवा परैरीश्वरः सद्यो
हृद्यवरुध्यतेत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ ( भाग ० १ । १ । २) इति ।
अत्रोच्यते । मरीचे शृणु वक्ष्यामि वेदव्यासेन यत्कृतम् । श्रीमद्भागवतं
नाम पुराणं ब्रह्मसंमितम् ॥ तदष्टादशसाहस्रं कीर्तितं पापनाशनम् ।
सुरपादपरूपोयं स्कन्धैर्द्वादशभिर्युतः ॥ भगवानेव विप्रेन्द्र विश्वरूपी
समीरितः ( नारदीयपु० ४ अ० ९६ ) इति । तेन श्रीमद्भागवतं
बोपदेवकृतम् इति केषांचित्तामसानां प्रलापो निरस्तः । बोपदेवकृतं
तु देवीभागवतमेव इति तु वयं तत्त्वतो जानीमः । २ भगवद्भक्तः पुरुषः ।
यथा यत्र ह वा वीरव्रत औत्तानपादिः ध्रुवः परमभागवतः ( भाग ०
स्क० ५ अ० १७ गद्यम् २ ) इत्यादौ । तत्स्वरूपमुक्तं यथा सर्व-
भूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्नेष भागवतोत्तमः ॥
( भाग० स्कन्ध० ११ अ० २ श्लो० ४५ ) इति । येन सर्वात्मना
विष्णुभक्तया भावो निवेशितः । वैष्णवेषु कृतात्मत्वान्महाभागवतो हि
सः ॥ ( गारुडे० ) इति ।