This page has not been fully proofread.

६१८
 
न्यायकीशः ।
 
निर्वाह: ( ग० म्यु० का० ५ पृ० १०६) । अत्र शाब्दिका वदन्ति ।
मीत्रार्थानां भयहेतुः इति सूत्रस्थस्य भयहेतुः इत्यस्य भयपदार्थैकदेशा-
निष्टहेतुः इत्यर्थः । यज्जन्यं भयमेव न प्रसिद्धम् तत्र पथमी न भवत्येव ।
तत्र पञ्चम्याः इष्टस्वे तु हेतुत्वारोपेण सा पञ्चमी ( ल० म० सुब०
कार० ५ पृ० १०९) इति । [ घ ] भावित्वेन स्वानिष्टचिन्तनम् । यथा
व्याघ्राद्विति त्रस्यतीत्यादौ धात्वर्थः । हेतुत्वं जन्यत्वं वा पञ्चम्यर्थः ।
तच धात्वर्यैकदेशे अनिष्टे चिन्तन एव वान्वितम् । तथा च व्याघ्रहेतुकस्य
स्वानिष्टस्य भावित्वेन चिन्तनवान् इति व्याघ्रहेतुकत्वेन भाव्यनिष्ट-
धर्मिकचिन्तनवान् इति वा तत्र बोध: ( श० प्र० श्लो० ६८ टी०
पृ० ८० ) 1 [ङ ] शाब्दिकास्तु अनिष्टज्ञानम् । यथा चोराद्विभेतीत्यादौ
धात्वर्थो भयम् इत्याहुः । अत्र चोरापादानकानिष्टज्ञानम् इति बोधः
( ल० म० सुब० का० ५ पृ० १०९ ) । २ भयस्थायिभावको रस-
विशेष: इति रसशास्त्रज्ञा आहुः । अत्रोच्यते रौद्रशक्त्या तु जनितं
चित्तवैक्कव्यदं भयम् ( सा० द० परि० ३ श्लो० १७८ ) इति ।
वैक्वव्यमस्थिरत्वम् । ३ निर्ऋतिपुत्र विशेषः इति पौराणिका आहुः ( भा०
आ० अ० ६६ ) ।
 
-
 
भवनम् – १ उत्पत्तिः कालस्य वस्तुना संबन्धविशेषो वा । यथा घटो
भवतीत्यादौ भूधात्वर्थो भवनम् । वैयाकरणास्तु उत्पत्त्यनुकूलो व्यापारः ।
यथा घटो भवतीत्यादौ भूधातोरर्थः इत्याहुः (वै० सा० द० ) (बाच ० ) ।
२ मन्दिरम् इति काव्यज्ञा आदुः ।
 
भविष्यत् – १ ( काल: ) यत्प्रागभावेन यः कालोवच्छिद्यते स तस्य
भविष्यत्कालः ( बै० उ० २१२१८ ) । यथा घट उत्पत्स्यत इत्यादौ
घटप्रागभावेन यः कालोवच्छिन्नः ( विशिष्ठ: ) स घटस्य भविष्यत्कालः ।
तर्ककौमुद्यां तु तब्यक्तिप्रागभावविशिष्टः कालस्तद्व्यक्तेरनागतकालः इत्यु-
क्तम् । अन्यत्र चोक्तम् वर्तमानप्रागभावप्रतियोग्यवच्छिन्नकालः इति ।
अत्रायं विशेषः कालस्य संबन्धमात्रत्वमते अवच्छिन्न इति न देयम् ( ५०
मा० काढनि० पृ० ९२) । भविष्यत्वं च [ क ] वर्तमानकाळवृत्तिप्राग-