2023-02-20 00:56:09 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः 1
भ.
भक्तिः – १ [ क ] गौणीशब्दवदस्यार्थोनुसंधेयः । यथा ततो भक्त्या दश
दिशः सिद्धाः ( प्रशस्त ० दिङ्गिरू० पृ० ८ ) इत्यादौ । [ ख ] भक्ति-
र्नाम लक्षणावृत्तिः ( जै० सू० पृ० अ० ३ पा० २ सू० ४३ ) ।
इयं भक्तिस्तु गौणत्वम् उपचारश्च इति व्यवयिते इति वदन्ति ।
[ग] प्रकर्षभाषाभावः । यथा बिल्वामलकादावणुत्वव्यवहारः समि-
दिक्षुदण्डादिषु च हस्वस्वव्यवहारो भाक्तः इत्यादौ आमलके यः प्रकर्ष-
भावस्तस्याभावः कुवले । बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके ।
सच गौणमुख्योभयभागित्वाद्भक्तिपदवाभ्यः ( वै० उ० ७१११८ ) ।
२ [क] आराध्यत्वप्रकारकं ज्ञानम् ( कि० व० पृ० ४ ) ( म०
प्र० १ पृ० १६) श० प्र० श्लो० ७२ टी० पृ० ९५ ) ( त०
प्र० १ पृ० ६ ) ( सि० च० ) । यथा भक्त्या हरिमुपास्ते इत्यादौ ।
यथा वा भक्तिर्ज्ञानाय कल्पते इत्यादौ । [ख] निरतिशयानन्दप्रियानन्य-
प्रयोजनस कलेतर वैतृष्ण्यवज्ज्ञान विशेषो भक्तिः इति रामानुजीया आडुः
( सर्व० पृ० १२३ रामा० ) । परे तु सा परानुरक्तिरीश्वरे ( शाण्डि ०
सू० १।१ ) । यथा रस ह्येवायं लब्ध्वानन्दी भवति ( तैत्ति ० उ०
२।७।१ ) इत्यादौ रसो भक्तिः । यथा वा ब्रह्मसंस्थोमृतत्वमेति
( छान्दो० २।२२।१ ) इत्यादौ संस्थापदबाच्या भक्तिः इत्याहुः
( शाण्डि० सू० टी० २१२ ) । अत्र रसशब्दवाच्यं संस्थाशब्दवाच्यं
च भगवदपरोक्षज्ञानमेव इति वयं जानीमः । भक्तेर्लक्षणं च आराध्य-
विषयकरागित्वम् । भक्ते रागरूपत्वे प्रयोगः भक्तिर्भजनीयगोचररागरूपा
तदनुवर्तनादिहेतुहितसाधनताधीभिन्नात्मविशेषगुणत्वात् यन्नैवम् तन्नैवम्
यथा द्वेषः इति ( शाण्डि० टी० ) । अत्र वल्लभीया वदन्ति । इयं
भक्तिद्विविधा साधनीभूता फलीभूता च । तत्र साधनभूता भक्ति-
ज्ञानाय कल्पते वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु
वैराग्यं ज्ञानं च यदद्वैतुकम् ॥ इत्यादौ । फलभूता तु स वै पुंसां परो
धर्मो यतो भक्तिरघोक्षजे। अद्वैतुक्यव्यवहिता ययात्मा संप्रसीदति ॥