This page has not been fully proofread.

न्यायकोशः ।
 

 
ब्राह्मणलक्षणं च विशुद्ध मातापितृजन्यत्वम् । अत्र विशुद्धत्वं च षटूर्मा-
धिकारवत्वम् ( त० कौ० पृ० २१ ) । तस्य स्वरूपं यथा जात्या
कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एमिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज
उच्यते ॥ ( वह्निपुराणे ) ( बाच० ) इति । वसिष्ठेनोक्तं ब्राह्मणस्वरूपं
यथा योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् । विद्या विज्ञान-
मास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥ इति । ब्राह्मणगुणप्रयुक्तं फलमाह सर्वत्र
दान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः । प्रतिग्रहे संकु-
चिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ इति । तस्य माहात्म्यादि
यथा सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः । तस्मै दानानि देवानि
भक्तिश्रद्धासमन्वितैः ॥ (वाच० ) इति । किंच अविद्वांश्चैव विद्वांश्व
ब्राह्मणो दैवतं महत् । प्रणीतश्चाप्रणीतश्च यथाभिर्देवतं महत् ॥
( मनु० ९ ३१७ ) इति । अत्र जन्मना ब्राह्मणो गुरुः इति स्मृतिर्हेया ।
मनुनाप्युक्तं यथा वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् । संस्कारस्य
विशेषाञ्च वर्णानां ब्राह्मणः प्रभुः ॥ ( मनु० अ० १० श्लो० ३ ) इति ।
२ मन्नेतरवेदभागो ब्राह्मणम् ( ऋग्वे० भाष्य० उपो० पृ० २०) ।
अत्रापस्तम्बः सूत्रयामास मन्त्रब्राह्मणयोर्वेदनामधेयम् इति । जैमिनिरपि
तच्चोदकेषु मन्त्राख्या । शेषे ब्राह्मणशब्दः ( जैमि० अ० २ पा० १
सू० ३२-३३ ) इति । तल्लक्षणं तु नैरुत्त्यं यस्य मन्त्रस्य विनियोगः
प्रयोजनम् । प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते ॥ ( याज्ञव० ) इति
( वाच० ) । अत्र वात्स्यायनभाष्यम् । त्रिधा खलु ब्राह्मणवाक्यानि
विनियुक्तानि विधिवचनानि अर्थवादवचनानि अनुवादवचनानि (वात्स्या ●
२।१।६१ ) इति ।
 
ब्राह्मम् – ( नक्षत्रम् ) रोहिणी ( पुरु० चि० पृ० ३५४ ) ।
ब्रुवणम् – ज्ञानोद्देश्यक प्रवृत्त्यधीनशब्दः । यथा शिष्यं धर्मे ब्रूते इत्यादौ
ब्रूञोर्थः । अत्र धात्वर्थघटके ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयक-
त्वस्यान्वयः । तथा च शिष्यवृत्तिज्ञानोद्देश्यक प्रवृत्त्यवीनधर्मविषयकशब्द-
प्रयोगकर्ता इति बोध: ( ग० ब्यु० का० २ पृ० ४६ ) ।