2023-02-20 00:56:08 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
ततो बृहस्पतिः किं कृतवान् । तदाह गत्वाथ मोहयामास रजिपुत्रान्
बृहस्पतिः । जिनधर्मे समास्थाय वेदबाह्यं स वेदवित् ॥ वेदत्रयीपरि-
भ्रष्टांश्चकार धिषणाधिपः । वेदबाह्यान् परिज्ञाय हेतुवादसमन्वितान् ॥
जघान शको वज्रेण सर्वान् धर्मबहिष्कृतान् ( मत्स्यपु० अ० २४ )
-: ( वाच० ) इति ।
ब्रह्म — १ वेदः । यथा
०
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते (मु०
१/१/९ ) । यथा वा तेने ब्रह्म हृदा य आदिकवये ( भाग० १ । १ । १ )
इत्यादौ । २ तपः । ३ सत्यम् । ४ तत्त्वम् । ५ हिरण्यगर्भादयो जीवाः ।
६ विप्रः । ७ ऋत्विग्विशेषः । यथा यज्ञस्य हैष भिषक् ब्रह्मा ( श्रुतिः )
इत्यादौ । ८ विष्कम्भादिषु पञ्चविंशो योगविशेषः इति मौहूर्तिका आहुः ।
९ विषयभोगत्यागः । स चाष्टादशविधः । तदुक्तम् दिव्यौदरिककामानां
कृतानुमतकारितैः । मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ( सर्व
सं० पृ० ६५ आई० ) इति । १० परब्रह्म ( परमात्मा ) इति
वेदान्तिनो वदन्ति । अत्राम्नायते । यद्वाचानम्युदितम् येन बागम्यु-
द्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ( केन० ४ ) । वदन्ति
तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति
शब्धते ॥ ( भाग० १।२।११ ) इति । तस्य नवधा रूपं यथा ।
तर्काणामेव षण्णां यत् षड़िधं रूपमैश्वरम् । वैष्णवानामेकरूपं वेदाना-
मेकमेव च ॥ पुराणानामेकरूपं तस्मान्नवविधं स्मृतम् । न्यायो निर्वर्ण-
नीयं च यन्मतं शंकरोब्रवीत् ॥ नित्यं वैशेषिकास्त्वन्यं वदन्ति च
'विचक्षणाः । सांख्यो वदति तं देवं ज्योतीरूपं सनातनम् ॥ मीमांसा
.. सर्वरूपं च वेदान्तः सर्वकारणम् । पातञ्जलोप्यनन्तं च वेदाः सत्य-
।
।
1
:
!
स्वरूपकम् ॥ स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम् (ब्रह्मवै० पु०
: अ० १०८ ) इति । अत्राधिकं तु परमात्मशब्दव्याख्यानावसरे संपादितं
: तत्र दृश्यम् । अत्र मध्वमते विष्णुरेव परब्रह्म । स चैक एव सच्चिदा-
·.· नन्दविग्रहः गुणपरिपूर्णः परमार्थतो जगदादिकारणम् सर्वान्तर्यामी
। स्वतनश्व इति विज्ञेयम् । रामानुजमते तु शेषशेषिभावाङ्गीकारेण विशेषः ।