This page has not been fully proofread.

म्यायकोव्ह ।
 
न्य भाषया देशः यथा वा संभ्रमेण नेहः तथा ज्ञानाकारेण ज्ञेयंमनुमेयम्
इति । तथा च बाह्यार्थसद्भावे प्रयोगः ये यस्मिन्सत्यपि कादाचित्काः
ते सर्वे तदतिरिक्तसापेक्षाः । यथा अविवक्षत्यजिगमिषति मयि वचन-
गमनप्रतिभासा विवक्षुजिगमिषुपुरुषान्तरसंतानसापेक्षाः । तथा च विवा-
दाभ्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीळाधु-
लेखनाः इति । तत्रालयविज्ञानं नामाहमास्पदं विज्ञानम् । अयमेवात्मा ।
नीलाघल्लेखि च प्रवृत्तिविज्ञानम् । ततश्च कादाचित्कत्व निर्वाहाय शब्द-
स्पर्शरूपरसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययावतुरः प्रत्खया-
प्रतीक्ष्योत्पद्यन्ते । ते चत्वारः प्रत्ययाः प्रसिद्धा: आलम्बनसमनन्तरसह-
कार्यधिपतिरूपाः । एवम् चित्तचैत्तात्मकानां सुखादीनां चत्वारि कारणानि
द्रष्टव्यानि । एवम् चित्तचैत्तात्मकः स्कन्धः पञ्चविधः रूपविज्ञानवेदना-
संज्ञासंस्कारसंज्ञकः । तदिदं सर्वे दुःखम् दुःखायतनम् दुःखसाधनं च
इति भावयित्वा तन्निरोधोपायं तस्वज्ञानं संपादयेत् । तञ्च प्राचीनभावना-
बलाद्भवति इति परमं रहस्यम् ( सर्व० सं० पृ० ३१-४०) ।
सूत्रस्यान्तं रहस्यम् पृच्छतां भवन्तश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रान्तिका
भवन्तु इति भगवता बुद्धेन अभिधानात् सौत्रान्तिकसंज्ञा संजाता इति ।
( ४ ) केचन बौद्धा: (वैभाषिका: ) बाह्येषु गन्धादिषु आन्तरेषु च
रूपादिषु स्कन्धेषु सत्स्वपि तत्रानास्थामुत्पादयितुं सर्वे शून्यम् इति
प्राथमिकान् माध्यमिकान् विनेयानचीकथद्भगवान् । द्वितीयांस्तु योगा-
चारान् विज्ञानमात्रमहाविष्टान् विज्ञानमेवैकं सत् इत्यचीकघत् । तृतीयान्
सौत्रान्तिकान् उभयं सत्यम् इत्यास्थितान् विज्ञेयमनुमेयम् इत्यचीकथत् ।
सेयं विरुवा भगवतो भाषा इति वर्णयन्तो वैभाषिकाख्यया ख्याताः इति
( सर्व० पृ० ४३ बौद्ध० ) । वैभाषिकमते प्रात्यक्षिकं वस्तु सत्
आनुमानिकं स्वसत् इति ज्ञेयम् । वैभाषिका इत्थं मन्यन्ते । अर्थो द्वि-
विषः प्रायः अभ्यवसेयश्च । तत्र ग्रहणं निर्विकल्पकरूपं प्रत्यक्षम् प्रमा-
णम् । कल्पनापोढत्वात् । अध्यवसायस्तु सविकल्पकरूपः अनुमानम्
अप्रमाणम् । कल्पनाज्ञानत्वात् । अवशिष्टं सौत्रान्तिक प्रस्तावे प्रपञ्चितम्