2023-02-20 00:54:03 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
अनुषज्यन्ते न तैर्विना सोर्थ: सिध्यति तेथ यदधिष्ठानाः सोधिकरण-
सिद्धान्तः । यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थ-
ग्रहणादिति । अत्रानुषङ्गिणोर्था इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि
स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि गन्धादिगुणव्यतिरिक्तं द्रव्यं
गुणाधिकरणं अनियतविषयाश्चेतना इति पूर्वार्थसिद्धावेतेर्थाः सिध्यन्ति ।
न तैर्विना सोर्थ: संभवतीति ( वात्स्या ० १ । १ । ३० ) ।
१४
[ख] यस्यार्थस्य सिद्धौ जायमानायामेवान्यस्य प्रकरणस्य प्रस्तुतस्य सिद्धि-
र्भवति सः । यथा तद्दूषणुकादिकं पक्षीकृत्योपादानगोचरा परोक्षज्ञानचि-
कीर्षाकृतिमज्जन्यत्वे साध्यमाने सर्वज्ञत्वमीशस्य ( गौ० १० १ । १ । ३० ) ।
यथा वा क्षित्यादिकर्तृसिद्धौ कर्तुः सार्वश्यम् ( त० भा० ४३ ) ।
[ग] अनुमेयस्य सिद्ध्यार्थो योनुषङ्गेण सिध्यति । स स्यादाधार सिद्धान्तो
जगत्कर्ता यथेश्वरः ॥ ( तार्किकर० श्लो० ६१ ) ।
अधिकवृत्तित्वम् – तदपेक्षयाधिकदेशकालान्यतरवृत्तित्वम् । यथा पृथिवी-
त्वमपेक्ष्य द्रव्यत्वस्याधिकदेशवृत्तित्वम् । योधिक देशवृत्तिर्धर्मः स एव
व्यापकधर्मो भवति ।
अधिकारः – १ स्वामित्वं यथेष्टऋयविक्रया दिकर्तृत्वसंपादकस्वामित्वं वा । यथा
सर्वे स्युरधिकारिण इत्यादावधिकार इति धर्मशास्त्रज्ञाः । २ [ क ] यद्ध-
र्मविशिष्टेन कृतस्य कर्मण: फलजनकत्वं से: ( मू० म० १ ) ।
[ ख ] यत् प्रवर्तमानपुरुषनिष्ठं तथा ज्ञायमानं सत्प्रवृत्तिहेतुः सः ।
[ग] येत् विधिवाक्येषु पुरुषविशेषणत्वेन श्रूयते सोधिकार इति मीमां-
सकाः । ३ स्वसूत्रे लक्ष्यसंस्कारकवाक्यार्थशून्यत्वे सति विधिसूत्रैकवाक्य-
तापनत्वमिति शाब्दिका वदन्ति । ४ आरम्भः । यथा अथै शब्दानु-
शासनमित्यादावधशब्दार्थोधिकार इति शाब्दिका आहुः ।
१ यथा अथातो ब्रह्मजिज्ञासेत्यादौ शमदमादिसंपत्सारासारविबेका विरधिकारः ।
२ यथा स्वर्गकामो यजेतेत्यादी स्वर्गकामनादिकमधिकारो भवति ।
३ अत्र शब्दशात्रमधिकृतं भवतीत्यर्थो बोध्यते ।