2023-02-20 00:56:06 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
।
द्विविधा नित्या अनित्या च । तत्र नित्या परमात्मनः । सा च साक्षा-
स्काराभिधा प्रत्यक्षप्रमात्मिकैव । अनित्या तु जीवस्य । अनित्या
द्विविधा । स्मृतिः अनुभवश्च । तौ च प्रत्येकं द्विविधौ । यथार्थो अय-
थार्थो च । अनुभवश्च चतुर्विधः । प्रत्यक्षम् अनुमितिः उपमितिः
शाब्दबोधश्च । तत्र यथार्थानुभवः प्रमा इत्युच्यते । अयथार्थानुभवस्तु
अप्रमा इति भ्रमः इति चोच्यते । प्रत्यक्षमपि सविकल्पकनिर्विकल्पक-
भेदेन द्विविधम् । तत्र निर्विकल्पकं न प्रमा नापि भ्रमः । संशय
प्रत्यभिज्ञा उपनीतभान इत्यादिकं तु सविकल्पकप्रत्यक्ष एवान्तर्भवति ।
अथ प्रकारान्तरेण विभागः प्रदर्श्यते । बुद्धिर्द्विविधा । स्मृतिः अनु-
भवश्च । उभयमपि प्रत्येकं यथार्थायथार्थभेदेन द्विविधम् । तत्र सर्वा
स्मृतिरनित्या जीवात्ममात्रसमवेता च । अनुभवस्तु प्रत्यक्षानुमित्युपमिति-
शाब्दबोधभेदेन चतुर्विधः । तत्र यथार्थानुभवः शास्त्रे प्रमा इत्युच्यते ।
प्रत्यक्षं नित्यानित्यभेदेन द्विविधम् । तत्र नित्यं प्रत्यक्षं परमात्मसमवेतम्
यथार्थमेव । अनित्यं प्रत्यक्षं तु जीवात्मसमवेतम् यथार्थमयथार्थं च ।
अनुमिति उपमिति शाब्दबोध एतत्रयं चानित्यमेव जीवात्ममात्रसमवेतं च
इति । इदं च यथार्थमयथार्थ चेत्युभयविधमप्यस्ति । प्रत्यभिज्ञोपनीत-
भानादिकं चानित्यप्रत्यक्ष एवान्तर्भवति इति नाधिक्यम् । वैशेषिकन ये
बुद्धिर्द्विविधा विद्या चाविद्या च । सा चानेकप्रकारा । अर्थानन्त्यात्
प्रत्यर्थनियतत्वाच्च । तस्याः सत्यप्यनेकविधत्वे समासतो द्विधा । विद्या
चाविद्या च ( प्रशस्त० पृ० २३) । तत्र विशेषणवद्विशेष्यसंनिकर्ष
लिङ्गपरामर्श इत्यादिरूपगुणजन्या विद्या । दूरत्वपित्तादीन्द्रियदोषजन्या
अविद्या ( स० व० पृ० २१३) । तत्र विद्या चतुर्विधा प्रत्यक्षलैङ्गिक
स्मृत्यर्षलक्षणा । आर्षस्वरूपं च गालवावृषीणामतीतानागतवस्तुविषयकं
ज्ञानमार्षम् । अत्र नैयायिकाः इदं च योगिनां योगजधर्मसहकारेण
जायमाने अलौकिक प्रत्यक्ष एवान्तर्भवति न चतुर्थम् इत्याहुः ( त० व०
पृ० २२० ) । आर्षस्वरूपं प्रकारान्तरेणान्यत्रोक्तम् । आम्नायविधा-
तृष्णामृषीणामतीतानागतवर्तमानेष्वर्थेष्वतीन्द्रियेषु धर्मादिषु ग्रन्थोपनिबद्धे-
-