This page has not been fully proofread.

न्यायकोशः ।
 
६०५
 
पेक्षम् एनम् इति ज्ञानम् । एवमन्यदपि बुद्धयपेक्षमूहनीयम् (वै०
उ० ८/२।१ पृ० ३६८ - ३६९ ) । [ ख ] आत्माश्रयः प्रकाशः
(प० च० पृ० ३० ) । [ग] आत्मगुणत्वे सत्यर्थप्रकाशः ( त० प्र० )
( स० भा० ) ( त० कौ० ) ( ता० र० श्लो० २९ ) । [ घ ] सर्व-
व्यवहारहेतुर्ज्ञानम् ( त० सं० ) । यथा भोगः ( बात्स्या० १११ ९ ) ।
भोगश्च सुखदुःखानुभवः । सर्वव्यवहारेत्यस्यार्थश्व व्यवहारः बुबोध-
यिषापूर्वकवाक्यप्रयोगः । तथा च तादृशव्यवहारजनकतावच्छेदकजाति-
मती समुदायार्थः । जातिपर्यन्तानुधावनेन निर्विकल्पकादौ नाव्याप्तिः ।
बुबोधयिषापूर्वकषाक्यप्रयोगे वाक्यार्थज्ञानत्वेन कारणत्वात् । कारण-
तावच्छेद कज्ञानत्वमादाय सर्वत्र लक्षणसमन्वयः ( वाक्य ० १ पृ० ९ ) ।
अथवा सर्वे ये व्यवहारा आहारविहारादयः तेषां हेतुर्बुद्धिः इत्यर्थः
(सि० च० १ पृ० १९ ) । बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ( गौ ०
१।१।१५) । बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः (वै० उ० ८।१।१ )
( प्रशस्त० गु० पृ० २३ ) ( वै० उ० ३१११२ ) ( ३११/१८) ।
यथा सा मणिकर्णिका स विश्वेश्वरः इत्यादिः (त० कौ० ) । बुद्धे-
ज्ञानपर्यायत्वकथनेन सांख्यमतनिरासः । तन्मते बुद्धेरन्तःकरणस्वरूप-
त्वम् । न्यायमते तु मनोभिन्नान्तः करणे मानाभाबाहु द्धेरन्तःकरणभिन्नत्व-
मेवेति बोध्यम् ( सि० च० १ पृ० १९) । सांख्यास्तु सत्वरजस्तमो-
गुणात्मिकाया अनादिपरिणामि नित्य
व्या पिप्रकृतेर्जडाया आद्यः परिणामो-
न्तःकरणरूपो महत्त्वापरपर्यायो बुद्धिः (कु० १) (वै० उ० ८।१११)
(सि० च० पृ० १९ ) अध्यवसायो वा बुद्धिः इत्याहुः (सांख्यसू०
अ० २ सू० १३ ) । योयं कर्तव्यम् इति निश्चयः ( वृत्तिः ) चिति-
संनिधानादापन चैतन्यायाः सोध्यवसायः इति तल्लक्षणम् । मायावादि-
नस्तु निश्चयात्मक वृत्तियुतमन्तःकरणं बुद्धिः इत्याहुः । अत्रोच्यते ।
निश्चयात्मा निराकारो बुद्धिरित्यभिधीयते इति वाशिष्ठे ( सांख्य
मा० १९६४ ) । मनो बुद्धिरहंकारश्चित्तं करणमान्तरम् । संशयो निश्चयो
गर्वः स्मरणं विषया अमी ॥ इति ( वेदा० सा० ) । न्यायमते बुद्धि-
0