This page has not been fully proofread.

न्यायकोशः ।
 
बाह्रैकैकेन्द्रियग्राह्यगुणत्वम्
 
– [क] चक्षुस्त्वगुभयाग्राह्यबहिरिन्द्रियप्राण-
परिमाणान्यगुणसमवेतजातिमत्त्वम् ( दि० गु० पृ० १९३ ) । यथा
रूपादेर्वायैकैकेन्द्रियमाझगुणत्वम् । तादृशी जातिश्च रूपत्वादिः । एतादृश-
जातिघटितलक्षण करणेन संख्यादौ नातिव्याप्तिः । अतीन्द्रियरूपादौ
नाव्यासिव इति ज्ञेयम् । बाह्रैकैकेन्द्रियग्राचगुणाश्च रूपम् रसः गन्धः
स्पर्श: शब्दश्च इति ( भा०प० गु० श्लो० ९४ ) ( प० मा० ) ।
बहिरिन्द्रियद्वयावेद्यबहिरिन्द्रिय वेद्यगुणत्व साक्षाद्व्याप्य जातिमत्त्वम्
 
६०४
 
( प० मा० ) ।
 
बुद्धः -- १ वेदतत्कर्मणोर्निन्दाकर्ता भगवतोवतारविशेषः । स च विष्णो-
चतुर्विंशत्यवतारमध्य एकविंशोवतारः । यथोक्तम् ततः कलौ संप्रवृत्ते
संमोहाय सुरद्विषाम् । बुद्धो नाम्ना जिनसुतः की कटेषु भविष्यति ॥
( श्रीमद्भाग० स्क० १ अ० ३ श्लो० २४ ) इति । तन्मतं तु बौद्ध-
शब्दव्याख्यानावसरे संक्षेपतः प्रदर्शयिष्यते तत्तत्र दृश्यम् । २ जागरितः
इति वेदान्तिन आहुः । ३ पण्डितच इति काव्यज्ञा आहुः ।
बुद्धिः – १ धर्मपत्नीभेद इति पौराणिका बदन्ति ( भा० आ० अ० ६६ ) ।
२ ( गुणः ) [ क ] बुद्धित्वसामान्यवती ( प्र० प्र० ) ( त० कौ० १
पृ० ६ ) । सा चात्ममात्रवृत्तिः । न त्वन्तःकरणवृत्तिः । अव्याप्यवृत्तिः
मनोमात्रगम्या च । लक्षणं च बुद्ध्यादिपदवाच्यत्वम् । अनुभवसिद्ध-
ज्ञानस्वजातिरेव वा ( गौ० वृ० १ । १ । १५ ) । अथवा जानामि इत्यनु-
व्यवसायगम्यज्ञानत्वम् ( त० दी० १ पृ० १४ ) (सि० च० १.
पृ० १६ ) । अथवा संबन्धावच्छिन्न प्रकारता निरूपितप्रकारितासमाना-
विकरणगुणत्वव्याप्यजातिमत्त्वम् ( ल०व० ) । बुद्धिविशेषाः केचि-
दुच्यन्ते । संनिकृष्टे वस्तुनि तावत् अयम् इति बुद्धिरुत्पद्यते । विप्रकृष्टे
वस्तुनि एषः इति बुद्धिः । क्रियायां स्वतन्नोयम् इति बुद्धिमपेक्ष्य त्वया
इति कर्तृत्वोपरक्ता बुद्धि: । करणव्यापारविषयत्वबुद्धिमपेक्ष्य कृतम् इति
कर्मबुद्धिः । अयं भुजिक्रियायां कर्ता प्रयोजकश्चायम् इति बुद्धिमपेक्ष्य
भोजय इति बुद्धिः । नियोज्यनियोक्तृष्यापारस्य विषयोयम् इति बुद्धय-