2023-02-20 00:56:06 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
सूयः कर्तव्यः इति बोधनेन ब्राह्मणकर्तव्यत्वस्य बाघः इति विज्ञेयम् ।
बाधविभाजकं तु प्रकृतपक्षप्रकृतसाध्यवैशिष्ट्यप्रहविरोध्युन्नायकत्वे प्रकृत-
पक्षप्रकृतसाध्यग्रहा विरोधित्वे च सति प्रकृतपक्षप्रकृतसाध्यवैशिष्ठयप्रह-
विरोधित्वम् ( दीधि ० २ बाध० पृ० २२० ) इति ।
बाधकमानम् - १ बाधवदस्यार्थोनुसंधेयः (दीधि ० २ पक्ष० पृ० १२३ ) ।
२ बाधकं प्रमाणम् । यथा नापि साधकबाधकमानाभावः पचत्वम्
( चि० २ पक्ष० पृ० ३३ ) इत्यादौ ।
-
बाघितः – ( हेत्वाभासः ) [ क ] साध्याभाववत्पक्षको हेतुः । यथा वह्नि-
रनुष्णः पदार्थत्वात् इति ( प्र० प्र० ) ( त० कौ० पृ० १५ ) ।
[ ख ] यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः यथा बहिर-
नुष्णो द्रव्यत्वाज्जलवदिति ( त० सं० ) । यथा वा हृदो वह्निमान्
धूमादित्यादौ घूमो बाधितः । वह्निरनुष्ण इत्यत्र च वह्नौ पक्षे क्रिय-
माणे साध्याभावस्य अनुष्णत्वाभावस्योष्णत्वस्य त्वगिन्द्रियेण निश्चयात्
द्रव्यत्वं हेतुर्बाधितः । यस्य साध्याभाव इत्यादेरर्थश्च पक्षविशेष्यकप्रमा-
निश्चयप्रकारीभूतसाध्याभावरूपबाधवान् । अथवा पक्षनिष्ठसाध्याभावादि-
रूपबाधवान्यः स बाधितः ( वाक्य
२ पृ० १८) । बाधितत्वं
च कालाव्ययापदिष्टत्वम् । तच्च उपजीव्य प्रमाण निश्चित साध्यविपरीतत्वम् ।
अथवा बाधात्मकहेतुदोषवत्त्वम् । एतज्ज्ञानं साक्षादनुमितिप्रतिबन्धकम् ।
वह्नावनुष्णत्वं नास्ति इति ज्ञाने सति वह्निरनुष्णः इति अनुमितेरसंभवात् ।
तदभावलौकिक निर्णयस्य तद्वत्ताज्ञाने प्रतिबन्धकत्वात् ( त० कौ० २
पृ० १५) ।
०
-
बाल: - १ [ क ] ग्रहणधारणपटुः (त० दी० १ पृ० २) । तथा च
ग्रहणपूर्वकधारणयोग्यः इत्यर्थः ( वाक्य ० ) । अयं शास्त्राध्ययने बाल:
इति ज्ञेयम् । यथा बालानां सुखबोधाय क्रियते तर्कसंग्रहः इत्यादौ ।
[ ख ] अघीतकाव्यकोशव्याकरणोनधीतन्यायो बालः इति केचिद्वदन्ति
( सि० च० पृ० १ ) । २ आ षोडशावेदालस्तरुणस्तत उच्यते इति
व्यवहारज्ञा आडुः । ३ स्तनधंयो बाल इति लौकिकजना वदन्ति ।