This page has not been fully proofread.

न्यायकोशः ।
 
बाघ ० पृ० ९ ) ( दीधि ० २ ) ( म० प्र० २ पृ० २८ ) ।
द्वितीये च तद्वत्ताबुद्धौ तदत्यन्ताभावस्येव तद्वद्भेदस्यापि घियो विरोधि-
त्वात् हेत्वाभासलक्षणस्यापि समन्वयः । एवं च वृत्यनियामकेन
तादात्म्यसंबन्धेन अनुमितिस्वीकारे तत्संबन्धस्य प्रतियोगिताबच्छेद-
कत्वे च तत्र साध्यवद्भेदस्य बाधत्वं बोध्यम् (ग० २ बाघ० पृ० ९ ) ।
तृतीये च प्राचीनमते पक्षः साध्यवान् पक्षे साध्यम् इति ज्ञानयोः
समशीलयोरेकस्य यत्प्रतिबध्यत्वम् अन्यस्यापि तत्प्रतिबध्यत्वमनुभवसिद्धम्
इत्याशयेन तदुक्तिः । एवं च एतादृशबाधज्ञानस्य ग्राह्याभावानवगाहि-
त्वेपि नानुमितिं प्रति प्रतिबन्धकत्वहानि: । चतुर्थे पक्षे साध्याभाव इत्यस्या-
र्यच आधेयतया पक्षेण पक्षवृत्तित्वेन वा विशिष्ट इति । तथा च
विशेषणविशेष्यभाववैपरीत्येपि प्रतिबन्धकत्वमक्षतम् इत्याशयेनेदं लक्षणम्
इति ज्ञेयम् । पञ्चमे साध्याभावाधिकरणत्वम् साध्यवद्भेदाधिकरणत्वं
चेत्यर्थः । अधिकरणताभेदात्पूर्वस्माद्भेदः । एतदपि प्राचीनमतेन ।
सप्तमे पक्षान्यत्वादिकमित्यस्य साध्यवत्त्वव्यापकानुयोगिताकत्वादिविशिष्टं
पक्षभेदादिकम् इत्यर्थः । तथा च भेदप्रतियोगिताभेदानुयोगित्वयोः
समनियतयोरेकज्ञानं यत्र विरोधि अपरज्ञानमपि तत्र तथा इत्याशयेनेदम्
( ग० बाघ ० पृ० १० ) । एवमन्यत्रोह्यम् । बाघितं च लिङ्गमनेकविधम् ।
१ धर्मिग्राहकमानबाधितम् । घटो व्यापकः सत्त्वादिति प्रत्यक्षेण ।
परमाणवः सावयवा मूर्तत्वादिति अनुमानेन । मेरु: पाषाणमयः पर्वत-
स्वादिति सुबर्णमयत्वबोधकागमेन । २ साध्यप्रतियोगिग्राहकमानबा-
धितम् । वह्निरनुष्णः कृतकत्वादिति प्रत्यक्षेण । शब्दोश्रावणो गुणत्वादिति
अनुमानेन । गवयत्वं गवयपदाप्रवृत्तिनिमित्तं जातित्वादिति उपमानेन ।
३ साध्यग्राहकमानबाधितम् । नरशिरः कपालं शुचि प्राण्यङ्गत्वादिति
आगमेन । ४ हेतुप्राहकमानबाधितम् । जलानिलावुष्णौ पृथिवीतो
विपरीतस्पर्शत्वात्तेजोवदिति प्रत्यक्षेण । मनो विभु ज्ञानासमवाय्या-
भारत्वादिति अनुमानेन । राजसूयो ब्राह्मणकर्तव्यः स्वर्गसाधनत्वा-
दग्निष्टोमवदिति राजसूयकर्तव्यताबोधकागमेन इति ( चि० २ बाध
पृ० ११० ) । अत्र राजा राजसूयेन यजेत इति श्रुत्या राज्ञैव राज-
-