2023-02-20 00:56:05 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
(ग० बाघ० पृ० १ ) । साध्याभावप्रमा च प्रमात्वेन ज्ञातैवोपयुज्यते
न स्वरूपसती । हेत्वाभासत्वात् । प्रमात्वज्ञानं विनाधिकबलत्वाभावेनादो-
षत्वात् । अप्रमायामपि प्रमात्वज्ञानेनुमितिप्रतिबन्धाञ्च ( चि० २ पृ०
१०३-१०४ ) । एकदेशिमतेन पक्षनिष्ठप्रमाविषयत्व प्रकाराभावप्रति-
योगिसाध्यकत्वम् ( चि० २ पृ० १०३) । अत्रत्यविषयः प्रकारता-
शब्दव्याख्यानावसरे संपादितः इत्यत्रैव विरम्यते । रघुनाथशिरोमणि
भट्टाचार्येस्तु बाधस्वरूपमनेकविधमुक्तम् । तद्यथा १ साध्याभाववान्
पक्षः । २ साभ्यवदन्यः पक्षः । ३ पक्षावृत्तिसाध्यम् । ४ पक्षे साध्या-
भावः । ५ पक्षनिष्ठसाध्याभाववत्त्वादिकम् । ६ साध्यादेः पक्षावृत्तित्वा
दिकम् । ७ साध्यवत्सामान्यादेः पक्षान्यत्वादिकम् । ८ विशिष्टसाध्ये
पक्षादेर्विशेष्याभाववत्वादिकम् । ९ पक्षादे: साध्यासमानाधिकरणधर्म-
वस्वम् ( दीधि ० २ बाघ० पृ० २१९ ) इति । यथा हृदो वह्निमान्
घूमादित्यादौ हृदे घूमेन बहिसाधने वह्रयभाववद्धदादिर्बाघः ( न्या०
म० २ पृ० २१ ) । अत्र प्रथमे साध्याभाववत्त्वमनवच्छिन्नं ग्राह्यम् ।
अतो नाव्याप्यवृत्तिसाध्यकस्थले कपिसंयोगवानयं वृक्षः इत्यादावति-
प्रसङ्गः । व्याप्यवृत्तिसाध्यकस्थले च पक्षनिष्ठानवच्छिन्नसाध्याभाववत्त्वं
बाघः । यथा जलं पृथिवी स्पर्शवत्वादित्यादौ जलनिष्ठपृथिवीत्वाभावो
बाधः । अत्रायं विशेषो ज्ञेयः । यत्र तु देशकालावच्छेदेन साध्यसाधनम्
यथा मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ उत्पत्तिकालावच्छिन्नो घटो
गन्धवान् पृथिवीत्वादित्यादौ च तत्र तदवच्छेदेन साध्याभाववखं बाधः ।
इमे असंकीर्णबाघोदाहरणे इति जेगीयेते ( न्या० म० २ पृ० २१ )
( म० प्र० २ पृ० २८)। परे तु घट सकर्तृकः कार्यत्वादित्यादौ
यत्र लाघवोपनीतमेकमात्रकर्तृकत्वं भासते तत्र तदभावोसंकीर्णोदाहरणम्
इति वदन्ति ( गौ० वृ० १ । २ । ९ ) । यत्र तु पक्षतावच्छेदके धर्मेन-
तिरिक्तवृत्तित्वरूपसाध्यावच्छेदकताभानमुद्देश्यम् यथा पर्वतो वह्निमानि-
त्यादौ तत्र पक्षतावच्छेदकसामानाधिकरण्येन साध्याभाववत्वं बाधः ।
यत्र तु तादृशधर्मसामानाधिकरण्यमात्रेण साध्यसिद्धिरुदेश्या यथा हृदो
वहिमानित्यादौ तत्र तादृशधर्मावच्छिन्नं साध्याभाववत्त्वं बाध: ( ग०
७६ न्या० को०
०
-