This page has not been fully proofread.

न्यायकोशः ।
 
हिप्रकरणपठितः समासो बहुव्रीहिः । तेन उन्मत्तगङ्गाद्यव्ययीभावे नाति-
व्याप्तिः । बहुव्रीहिर्द्विविधः । समानाधिकरणः व्यधिकरणश्च । तत्र
समानाधिकरणो यथा चैत्रदत्तधन इत्यादौ आरूढवानरो वृक्ष इत्यादौ
च । अन्न चैत्रेण दत्तं धनं यस्मै इति व्यासवाक्यात् चैत्रकर्तृकयत्संप्र-
दानकदानकर्म धनम् इत्यन्वयबोधः । समासे तु चैत्रकर्तृकदानकर्मधन-
संबन्धी इत्यन्वयबोधः । संबन्धश्च स्वकर्मकदान संप्रदानत्वम् इति
बोध्यम् । आरूढवानर इत्यत्र आरूढो वानरो यम् इति व्यासे झाङ्-
पूर्व करुहधातोरूर्ध्व देशावच्छिन्नसंयोगानुकूल क्रिया क्तप्रत्ययस्याश्रयः द्विती-
याया आधेयत्वम् अर्थः । तथा च वृक्षवृत्त्यूर्ध्वदेशावच्छिन्न संयोगानु-
कूलक्रियाश्रयो वानरः इत्यन्वयबोधः । समासे तु आरोहणकर्तृवानर-
संबन्धी वृक्षः इत्यन्वयघीः । संबन्धः स्वकर्तृकारोहणकर्मत्वम् इति
ज्ञेयम् । व्यघिकरणो यथा चक्रपाणिरित्यादौ । अत्र चक्रं पाणौ यस्य
इति विग्रहवाक्ये यत्संबन्धिपाणिवृत्ति चक्रम् इत्यन्वयधीः । समासे तु
चक्रयुक्तपाणिसंबन्धी इति बोध: ( त० प्र० ख० ४ पृ० ४९ ) ।
प्रकारान्तरेण बहुव्रीहिर्द्विविधः तद्गुणसंविज्ञान: अतद्गुणसंविज्ञानश्चेति ।
( श० प्र० श्लो० ४४ ) । लम्बकर्णः चित्रगुः इति कमेगोदाहरण-
द्वयम् । प्रकारान्तरेणापि द्विपदत्रिपदचतुष्पदादिभेदेन बहुविधः ।
यथा चित्रगुः जरतीचित्रगुश्चैत्रः महन्नीलोत्पला सरित् इत्यादौ ( श०
प्र० श्लो० ४६ टी० पृ० ६० ) । २ काव्यज्ञास्तु अनेकधान्या-
दियुक्तः । यथा तत् पुरुष कर्म धारय येनाहं स्यां सदा बहुव्रीहिः
( उद्भटः ) इत्यादौ इत्याहुः ।
 
बाघः
 
-१ अभावः ( वाक्य ० ४ पृ० १९) । यथा अर्थाबाधो योग्यता
इत्यादौ ( त० सं० ) । २ प्रतिबन्धः । ३ पीडनम् इति काव्यज्ञा
आहुः । ४ हेत्वाभासविशेषः । स च प्राचीनमते साध्याभाव-
वत्त्वप्रमाविषयपक्षकत्वम् । अथवा प्रमितसाध्याभाववत्पक्षकत्वम् । तथा
च साध्याभावप्रमैव दोषः । एतादृशबाधज्ञानस्य प्रमात्वविषयकता-
नियमेन प्रतिबन्धकताध्रौव्यादिति भावः । तथा चैतन्मते प्रमात्वविषयक-
त्वस्यैव प्रतिबन्धकतायां प्रयोजकत्वाद्धेत्वाभासलक्षणस्य समन्वयो भवति