This page has not been fully proofread.

५१८
 
बहिरिन्द्रियम् – ( इन्द्रियम् ) [ क ] मनोभिन्नमिन्द्रियम् ( राम० १
साधर्म्य ० ५० ५८) । यथा घ्राणम् बहिरिन्द्रियम् । बहिरिन्द्रियाणि
पञ्च । घ्राणम् रसनम् चक्षुः त्वक् श्रोत्रम् ( गौ० १११/१२ ) इति ।
[ ख ] शब्दादिबाह्यविषयग्राहकमिन्द्रियम् । बहिरिन्द्रियलक्षणं च
घ्राणाद्यन्यान्यत्वम् ( गौ० वृ० १९९१ । १२) । अत्रेदमवधेयम् । प्राचीन-
नैयायिकमते वायोरप्रत्यक्षत्वेन बहिरिन्द्रियजन्यद्रव्य प्रत्यक्ष रूपं कारणम्
इति कार्यकारणभाषः स्वीकृतः । तेन वायौ रूपाभावेन न तत्प्रत्यक्षम्
इति । नवीननैयायिकमते तु वायोरपि त्वाचप्रत्यक्षविषयत्वेन बहिरिन्द्रिय-
जन्यद्रव्यप्रत्यक्षमात्रे रूपं कारणम् इति म कार्यकारणभावः । किंतु
तादृशप्रत्यक्ष आत्मा वृत्तिशब्दभिन्न विशेषगुणवत्वं प्रयोजकम् इति प्रयो-
ज्यप्रयोजकभावः स्वीकृतः । तेन वायोरपि त्वाच प्रत्यक्षावमुपपद्यते
( भा० १० लो० ५७ टी० मु० १ पृ० ११३ ) ।
 
बहिर्द्रव्यम्-आत्मान्यद्रव्यम् ( नील० २ पृ० २६ ) । यथा पृथिवी
बहिर्दव्यम् । अत्र बहिष्ठं चात्मान्यत्वम् । मानसलौकिक प्रत्यक्षविषया-
न्यत्वं वा ( म० प्र० २ पृ० २९ ) ।
 
बहिष्पवमानम् – उपास्मै गायता नरः । दविद्युतत्या रुचा । पवमानस्य ते
कवे । इति सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते (जै०
न्या० अ० १ पा० ४ अधि० ३ ) ।
 
बहुत्वम् – ( संख्या ) १ प्रतिनियतैकत्वानालम्बनापेक्षा बुद्धिजनितत्रित्वादि-
संख्या (वै० उ० ) । यथा बहवो ब्राह्मणाः सन्ति इत्यादौ बहुत्वम् ।
अत्रेदं बोध्यम् । सेनावनादौ च शताद्यभिव्यक्तिस्तु न भवति । तादृश-
व्यञ्जकाभावात् इति (वै० उ० ७१२१८ पृ० ३२३ ) । २ उपस्कार-
मते तु त्रित्वादिसमानाधिकरणं संख्यान्तरमेव बहुत्वम् । यथा भवति
हि शतं वा सहस्रं वा चूतफलान्यानयामि इति प्रश्ने बहबस्तावदा-
नीयन्ताम् किं विशेष जिज्ञासया इत्युत्तरम् । इदं च नित्यादिजनकापे-
क्षाबुद्ध्या जन्यते । अत्रेदं बोध्यम् । द्विस्वसहितापेक्षाबुया त्रिव्यमुत्पद्यते ।
त्रित्वसहितापेक्षाबुद्ध्या चतुष्वमुत्पद्यते । एवमुच्चरोत्तरम् । बहुस्बोत्पत्तौ
 
-