2023-02-20 00:56:04 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
ब.
बद्ध: - ( पारदः ) अक्षतश्च लघुद्रावी तेजस्वी निर्मलो गुरुः । स्फोटनं
पुनरावृत्तौ बद्धसूतस्य लक्षणम् ॥ ( सर्व० सं० पृ० २०५ रसेश्व० ) ।
बघ - (धातुः ) १ संयमनम् । यथा बाधयति बघते इत्यादौ धात्वर्थः ।
२ निन्दा । यथा बीभत्सत इत्यादौ । ३ प्रतिबन्धः । यथा प्रतिबभ्यत्वम्
इत्यादौ ।
-
बन्ध - ( धातुः ) १ संयमनम् । यथा संसारपाशः पुरुषं बध्नाति इत्यादौ
धात्वर्थः । २ निरोधनम् । यथा अनुमिति प्रतिबन्धकत्वम् इत्यादौ ।
-
बन्धः - १ आत्मनः शरीरादिसंबन्धः । २ मिथ्यादर्शनाविरतिप्रमादकषाय-
बशाद्योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामनन्तप्रदेशानां पुद्गलानां कर्म-
बन्धयोग्यानामादानमुपश्लेषणं यत्करोति स बन्धः । तदुक्तम् सकषाय-
त्वाज्जीवः कर्मभावयोग्यान्पुद्गलानादत्ते स बन्ध: ( त० सू० ८/२)
( सर्व० सं० पृ० ७५ आई० ) । ३ अन्योन्यं प्रदेशानुप्रवेशे सत्य-
विभागेनावस्थानं बन्ध: ( सर्व० पृ० ८१ आई० ) ।
४ पारतत्र्यं
बन्ध: ( सर्व० सं० पृ० २४९ अक्षपा० ) । ५ अविद्यास्तमयो मोक्षः
सा च बन्ध उदाहृतः ( सर्व० सं० पृ० ४०२ शां० ) ।
०
बन्धकम् – आधि: ( गहाण इति प्र० ) ।
बलम् – १ साधनसामग्री । यथा
गमकतौपयिकरूपसाकल्यं हि बलम्
इत्यादौ (चि० २ बाध० पृ० १०६) । तच्च अनुमितौ व्याप्ति-
पक्षधर्मतात्मकं बलम् ( चि० २ सत्प्र० पृ० ९४ ) (ग० बाघ ० }}
२ शरीरादिशक्ति विशेषः इति काव्यज्ञा वदन्ति । ३ सैन्यम् इति पौरा-
णिका आहुः । ४ गुरुभक्तिः प्रसादश्च मतेर्द्वन्द्वजयस्तथा । धर्मश्चै-
वाप्रमादश्च बलं पञ्चविधं स्मृतम् ॥ ( सर्व० सं० पृ० १६४ नकुली० ) ।
५ रोधशक्तिः ( सर्व० सं० पृ० १८८ शै० ) ।
बहिः --समभिव्याहृतपदार्थता बच्छेदकानधिकरणतत्संनिहितदेशः तत्स्थं
वस्तु च । यथा प्रामाहिरित्यादौ । अत्र बहिर्योोंगे पञ्चमीसमासविधान-
सामर्थ्यात् तद्योगे पञ्चमी । बहिष्ट्वं च नियतमवध्याकाङ्क्षम् इति स
पञ्चम्यर्थ: ( ल० म० सुबर्ध० पृ० ११२) ।