This page has not been fully proofread.

न्यायकोशः ।
 
शब्दव्याख्यानावसरे संपादितम् । [ख] वैयाकरणादयस्तु यदुद्देशेन
श्रुतेर्लोकतो वा प्रवृत्तिरवगता तत् इत्याहुः ( बै० भू० ५० धात्व०
१० ७ ) । न्यायमते फलं द्विविधम् । मुख्यम् गौणं च । तत्राद्यं
सुखदुःखोपभोगः । लक्षणं च सुखदुःखान्यतरसाक्षात्कारत्वम् ( गौ०
वृ० १ । १ । २० ) । अथवा तदीयमुख्यफलत्वं तु यत्कामनात्वेन तदीय-
फलं प्रति जनकता तत्त्वम् । यथा स्वर्गादिकामना स्वप्रयोज्यदर्शादि-
संबन्धेन दर्शादिफलस्वर्गादिकं प्रति जनिका (मू० म० मङ्गल० पृ० २२ ) ।
अत्र वेदान्तिन आहुः । अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेय न तु संन्यासिनां कचित् ॥ ( गीता० अ० १८
लो० १२) इति । द्वितीयं शरीरादिकं सर्वमेव ( गौ० दृ० ११११२० )
( न्या० वा० १ । १ । २० पृ० ८६ ) । अत्रोच्यते फलं प्रवृत्तिसाध्यं
स्यात् तच्च देहसुखादिकम् ( ता० र० लो० ३२) इति । २
धास्वीयवृत्तिग्रहप्रकारताश्रयः । यथा क्रियाजन्यफलशालिस्वं कर्मत्वम्
इत्यत्र ग्रामं गच्छतीत्यादावुत्तर देशसंयोगः फलम् । अत्र सकर्मकधातूनां
फलावच्छिन्नव्यापारे शक्तिः इत्यभिप्रायेणोक्तमिदम् इति ज्ञेयम् । कर्मा-
ख्यातसमभिव्याहारस्थले तु शाब्दबोधे फलस्य द्विधाभाने चेष्टापत्तिरेष
शरणम् इति भावः । अत्र शाब्दिका आहुः । यस्यार्थस्य प्रसिद्ध्यर्थ-
मारभ्यन्ते पचादयः । तत्प्रधानं फलं तेषां न लाभादिः प्रयोजनम् ॥
( भर्तृ० ) इति । तेन पाकादिजन्यं भोजनम् यागादिजन्यं च पुण्यमेव
फलम् न वेतनादिरूपं फलम् । तेन सूदकस्य ऋत्विगादेर्वा न घाटवर्थ-
अभ्यफलमागित्वम् इति । केचिच्छाब्दिकास्तु कर्तृप्रत्ययसमभिव्याहारे
धास्वर्थजन्यत्वे सति धात्वर्थनिष्ठ विशेष्यतानिरूपित प्रकारताश्रयः फलम्
इति वदन्ति । अत्राधिकं तु धातुशब्दव्याख्यानावसरे संपादितम् ।
 
फलनिष्पादकत्वम् ।
 
फलोपधायकत्वम्-
फलोपहितत्वम्-