This page has not been fully proofread.

न्यायकोशः ।
 
धेनुकर्मकचैत्रसंप्रदानकदानत्वावच्छिन्नधर्मिका या युष्मत्कर्तव्यत्वप्रका
रिका चैत्रेच्छा तद्विशेष्यीभूतस्य दानस्यानुकूलकृतिमांस्त्वम् इत्याकारको
बोध: ( श० प्र० श्लो० १०० टी० पृ० १७६ ) । [घ ] शाब्दि-,
कानां मते प्राप्तीच्छा विधिरूपा प्रार्थना । [ङ ] स्वाभिलषित-
वस्तुदानादौ स्वीयेच्छाबोधनम् । यथा भोजनं लभेयेत्यादौ लिखर्थः
( वै० सा० द० ) । ३ आलंकारिकास्तु गर्भाङ्गविशेषः प्रार्थना इत्याहुः ।
अत्र अभूताहरणं मार्गो रूपोदाहरणे क्रमः । संग्रहश्वानुमानं च प्रार्थना
क्षिप्तिरेव च ॥ त्रोटकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा । इति गर्भाङ्गान्यु-
द्दिश्य रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् इति प्रार्थना लक्षिता
( सा० ८० परि० ६ श्लो० ३६४ - ३७२) । ४ मुद्राविशेषः प्रार्थना
इति तान्त्रिका आहुः । तदुक्तम् प्रसृताङ्गुलिकौ हस्तौ मिथः श्लिष्टौ च
संमुखे । कुर्यात्स्वहृदये सेयं मुद्रा स्यात्प्रार्थनाभिधा ॥ इति ( तन्त्रसा० )
( वाच० ) ।
 
प्रावृतिः –अशुचिः मलः । प्रावृणोति प्रकर्षेणाच्छादयत्यात्मनो दृक्क्क्रये
इति प्रावृतिः ( सर्व० सं० पृ० १८८ शै० )।
 
प्राशस्त्यम् - १ विधेयतावच्छेदकसामानाधिकरण्येन बलवदनिष्टाननुबन्धित्वे
सति क्रियाजन्यसुखापेक्षयाधिकेष्टजनकत्वम् । यथा मीमांसकमते विध्यर्थ-
वादेन लक्षणया बोधितं प्राशस्त्यम् शब्दभावनायामितिकर्तव्यतात्वेना-
न्वेति । निषेधार्थवादेषु ( निन्दार्थवादेषु ) त्वप्राशस्त्यं लक्ष्यते इति ।
तत्र विध्यर्थवादः प्रजापतिरात्मनो वपामुदखिदत् इत्यादिः ( लौ० भा०.
टी० पृ० ८ ) । अत्राधिकं च अर्थवादशब्दव्याख्यानावसरे संपादितम् ।
तत्तत्र दृश्यम्। २ शीघ्रफलदातृत्वम् इति वैयाकरणा आहुः ( ल० म० ) ।
३ प्रशंसनीयत्वम् इत्यन्य आहुः । ४ क्षेमत्वम् ( वाच० ) । यथा न
भद्रं भद्रमिति ब्रूयात् पुण्यं प्रशस्तमित्येव ब्रूयात् ( आपस्त० धर्मसू०
१।११।३१।१३ - १४ ) इत्यादौ । ५ श्रेष्ठत्वम् इति काव्यज्ञा आहुः ।
प्रीणनम् – १ प्रीत्यनुकूळव्यापारः । यथा हरि प्रीणयतीत्यादौ प्रीधातोरर्थः ।
-
२ इच्छा । यथा प्रीयत इत्यादौ ( वाच० ) ।
 
७५ न्या० को.