This page has not been fully proofread.

न्यायकोश: F
 
प्रायश्चित्तम् - [क] दुरितनाशकत्वेन विहितः साधनविशेषः । यथा गोषधे
• प्रायश्चित्तमित्यादी ( श० प्र० लो० ९३ टी० पृ० १३४ ) । अत्र
निमित्तारकर्मयोगे ( वार्तिक ० ) इत्यनेन सप्तमी ज्ञेया । तथा च जन्यत्वं
सप्तम्यर्थः । तस्य प्रायश्चित्तपदार्थैकदेशे दुरितेन्वयः । जन्यत्वे च
गोषधादेस्न्वयः । प्रायश्चित्तशब्दस्य अङ्गिरः स्मृतौ व्युत्पत्तिः प्रायो
नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपो निश्चयसंयुक्तं प्रायश्चि
तमिति स्मृतम् ॥ इति ( वाच० ) । [ ख ] पापक्षयमात्रसाधनत्वेन
विधिबोधितः कर्मविशेषः । अत्र मात्रपदात् तुला-पुरुषाश्वमेधादि-
व्यावृत्तिः । तत्र पापविशेषस्यैव कामाकामकृतस्य शक्तिविशेषस्य ततो
नाश: ( मतभेदेन ) इति विज्ञेयम् ( वाच० ) ।
 
प्रारब्धम् -- ( कर्म ) [ क ] तत्तच्छरीरभोगजनकं हि यत्कर्म तत् । यथा
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नामुक्तं क्षीयते कर्म कल्प-
कोटिशतैरपि ॥ इत्यादौ कर्म प्रारब्धमस्ति (मु० गु० पृ० २३५ ) ।
अत्र व्युत्पत्तिः प्रकृष्टमारब्धं स्वकार्ये येन इति (वाच ० ) । जननाय कृता-
रम्भम् इति यावत्। [ ख ] देहाधारम्भकः अदृष्टविशेषः । तस्य च
भोगेनैव क्षयः । न तु ज्ञानेन । प्रारब्धातिरिक्तं कर्म तु ज्ञानेन नश्यति
इति विवेकः । अत्रोक्तम् यथैधांसि समिद्धोग्निर्भस्मसात्कुरुतेर्जुन । ज्ञानाग्निः
सर्वकर्माणि भस्मसारकुरुते तथा ॥ (गीता० अ० ४ लो० ३७) इति ।
प्रार्थनम्
प्रार्थना
 
} -- १ उत्कर्ष प्रतिपादनेच्छा ( कु० ५ टी० ) । यथा देवदत्त
 

S
 
ईश्वरं प्रार्थयतीत्यादौ धात्वर्थः । २ [ क ] दानाय प्रेरणम् । प्रेरणा
प्रवर्तना । सा च दीयताम् इत्याद्यभिलापरूपा । यथा नृपमर्थ प्रार्थयते
याचते मिक्षते इत्यादौ धात्वर्थः । अत्र नृपनिष्ठं यदर्थस्य दानं तध्प्रेरणा-
वान् इत्यर्थ: ( श० प्र० श्लो० ७३ टी० पृ० ११२ ) । [ख]
याच्या । यथा बलिं याचते वसुषाम् इत्यादौ । [ग] स्वसंप्रदानक-
दानधर्मिकसंबोध्य कर्तव्यत्वप्रकारकवक्रि च्छाविषयत्वम् । यथा धेनुं दया-
स्त्वमस्मभ्यमित्यादौ लिडर्षः प्रार्थना । अत्र चैत्रकर्तृकैतादसवाक्यस्थळे