This page has not been fully proofread.

न्यायकोशः ।
 
प्राप्यप्रकाशकारित्वम् – १ संनिकृष्टप्राहित्वम् (राम० ११० ७९)। यथा
बाह्यन्द्रियाणाम् । २ विषयदेशं गत्वा विषयप्रकाशकत्वम् । यथा न्याय-
मते चक्षुरिन्द्रियस्यैव प्राप्यप्रकाशकारित्वम् । गोलकमेव चक्षुः न तैजसम्
इत्युच्छृङ्खलमते तु चक्षुरप्राप्यप्रकाशकार्येव भवति । यदि प्राप्यप्रकाशकारि
स्यात्तदा रसनादिबदधिष्ठानसंबद्धं गृह्णीयात् । न चैबम् । गोलका-
संबद्धग्रहणात् इत्यादि ( दि० १ तेजो० पृ० ७९-८०) । माया-
वादिमते तु श्रोत्रस्यापि प्राप्यप्रकाशकारित्वम् (वाच० ) इति ।
प्राप्यम् – १ ( कर्म ) क्रियाप्रयोज्यासाधारणधर्मप्रकारकप्रतीतिविषयताना-
श्रयत्वे सति फलाश्रयः ( क्रियाजन्यफलववेनोद्देश्य: ) ( वाच० ) ।
यथा ग्रामं गच्छतीत्यादौ ग्रामः प्राप्यं कर्म । अत्र प्रामादेः कर्तृसाधारण-
संयोगरूपफलववेपि क्रियाप्रयोज्यश्रमादिरूपासाधारणविशेषफलस्याना-
धारत्वेन तादृशफलप्रकारकबोधाविषयत्वात् प्राप्यत्वम् । निर्वर्त्यविकार्य-
योस्तु क्रियाजन्योत्पत्त्यादिफलस्य कर्ममात्रनिष्ठतया असाधारण्येन तद्वत्त्वा-
नातिप्रसङ्ग इति बोध्यम् ( वाच० ) । क्रियाप्रयोज्येत्यादिलक्षणे
निर्वर्यादावतिव्याप्तिवारणाय सत्यन्तम् । तत्रापि विषयतानाश्रयत्वस्य
धर्मप्रकारकप्रतीतिविषयतानाश्रयत्वस्य असाधारणधर्मघटितस्य वा तस्य
घटं जानातीत्यादौ घटादावसंभव इति प्रयोज्यान्तं धर्मविशेषणम् । तत्रैव
क्रियाप्रयोज्यधर्मसंयोगप्रतीतिविषये प्रामादिकर्मण्यव्याप्तिनिरासायासाधा-
रणेति । क्रियाजन्यफलानाश्रयेतिप्रसक्तिनिरासाय विशेष्यम् । प्राप्य कर्म-
लक्षणमुक्तं वाक्यपदीये हरिणा क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते ।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ इति ( ग० व्यु० का० २
पृ० ६५ ) । २ गम्यम् । ३ लम्यं चेति काव्यज्ञा आहुः ।
प्राभाकरः – मीमांसकविशेषप्रभाकरमतानुयायी तन्मतज्ञश्च । अत्र व्युत्पत्तिः
प्रभाकरस्य इदं तन्मतं वेत्ति वा ( अणू ) इति । प्रभाकरस्य गुरु
इत्यपरनाम ।
 
-
 
प्रामाण्यम् - १ प्रमात्वम् । २ प्रमाणत्वम् । अत्रत्यः स्वतःप्रामाण्यादिघ्नप-
अस्तु प्रमात्वशन्दे संपादितः । तत्र द्रष्टव्यः ।