2023-02-20 00:56:01 by ambuda-bot
This page has not been fully proofread.
वायुविकारः इति सांख्या आहुः । ३ परब्रह्म (विष्णु: ) प्राणशब्द-
वाच्यम् इति वेदान्तिच आहुः । अत्र प्रमाणानि ॐ अत एव प्राणः
ॐ (ब्रह्मसू० १ । १ । २३ ) । तद्वै त्वं प्राणो अभवः महाभोगः प्रजापते-
र्भुजः करिष्यमाणः यद्देवान् प्राणयो नव इति । श्रीश्च ते लक्ष्मीच
पन्यौ अहोरात्रे पार्श्वे ( श्रुतिः ) इति च ( मध्वमा० १ । १ । २३ ) ।
तथा ॐ प्राणस्तथानुगमात् ॐ ( ब्रह्मसू० १।१।२८ ) । तं देवाः प्राण-
यन्त स एषोसुः स एष प्राणः स एष भूतिश्च प्राण ऋच इत्येवं विद्यात्
तदयं प्राणोधितिष्ठति ( श्रुतिः ) इति ( मध्वमा० १११।२८) ।
प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यानं मनसो मनः
( श्रुतिः ) इति च ( मध्यभा० १ । ४ । १३ ) । ४ दशगुरुवर्णः प्राणः
षट् प्राणा: स्याद्विनाडिका तासाम् । षष्ट्या घटी घटीनां षट्याहोरात्र
उक्त ॥ ( मिताक्षरा २११०२) । अहोरात्रशब्दे दृश्यम् ।
प्राणायामः – ( योगाङ्गम् ) [ क ] तस्मिन् सति श्वासप्रश्वासयोर्गति-
विच्छेदः ( पात० सू० पाद० २ सू० ४९ ) । तस्मिन् आसनस्थैर्ये
सति इत्यर्थः ( गौ० वृ० ४।१११ ) । [ ख ] प्राणवायोर्गतिविच्छेद-
कारकव्यापारविशेषः । अत्रोक्तं ज्ञानार्णवे कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुट-
धारणम् । प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥ इति ( वाच ० ) ।
सच प्राणायामो द्विविधः । सगर्भः निगर्भश्च । तत्राद्यो मन्त्रजपेन ।
द्वितीयो मात्रया । मात्रा तु वामजानुनि तद्धस्तभ्रामणमात्रकाल: ।
अधिकं तु तन्त्रसाराज्ज्ञेयम् ।
प्रातः - (अव्ययम् ) १ सूर्योदयावधि मुहूर्तत्रयमितः कालः । यथा
सर्वेषामुपवासानां प्रातरेव हि पारणम् इत्यादौ । अत्र स्मृतिः प्रातःकालो
मुहूर्तास्त्रीन्संगवस्तावदेव तु ( वाच ० ) इति । अन्यत्राप्युक्तम् । मुहूर्त-
त्रितयं प्रातस्तावानेव तु संगवः । मध्याहस्त्रिमुहूर्तः स्यादपराह्नश्च तादृशः ॥
सायाहस्त्रमुहूर्तः स्यात्सर्वकर्मसु गर्हितः । अन्यत्रापि प्रातस्तु संस्मृतः कालो
भागश्वाह्नः स पञ्चमः । संगवस्त्रिमुहूर्तोथ मध्याहस्तु समः स्मृतः ॥
ततस्त्रयो मुहूर्ताव अपराह्नोभिधीयते । पञ्चमोथ दिनांशो यः स सायाह