This page has not been fully proofread.

१५
 
स्तेवादीणि विहिताकरणं प्रमादध । एतानि दुष्टाभिसंवि चापेश्यात्मम
नसोः संयोगादधर्मोत्पत्तिरिति । अविदुषो रागद्वेषवतः प्रवर्तकाद्धर्मा
प्रकष्टात्स्वल्पा धर्मसहिताइलेन्द्रप्रजापतिपितृमनुष्यलोकेष्वाशयानुरूपैरिष्ट-
शरीरेन्द्रियविषयसुखादिभिर्योगो भवति । तथा प्रकृष्टादधर्मात्स्वस्पधर्मसहि-
तात्प्रेततिर्यग्योनिस्थानेषु अनिष्टशरीरेन्द्रियविषयदुःखादिमिर्योगो भवति ।
एवं प्रवृत्तिलक्षणाद्धर्मादधर्मसहिता देव मानुषतिर्यङ्नरकेषु पुनःपुनः सं.
सारप्रबन्धो भवति । ज्ञानपूर्वकात्तु कर्मणः कृतादसंकल्पितफला-
द्विशुद्धकुले जातस्य दुःखवियोगोपायजिज्ञासोराचार्यमुपगम्योत्पन्नषट्-
पदार्थतत्त्वज्ञानस्याज्ञाननिवृत्तौ विरक्तस्य रागद्वेषाभावात्तज्जयोर्धर्माधर्मयोर-
नुत्पत्तौ संचितयोरुपभोगान्निरोघे संतोषसुखं शरीरपरिखेदं चोरपाय
रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजं सुखं कृत्वा
निवर्तते । तदा नित्यस्यात्मनः शरीरादिनिवृत्तौ बीजाभावेन पुनः शरी-
राधनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति ( प्रशस्त ० ० ० ३६ ) ।
अधिकम् – ( निग्रहस्थानम् ) [ क ] हेतूदाहरणाधिकमधिकम् ( गौ ०
५१२/१३ ) । एकेन कृतत्वादन्यतरस्यानर्थक्यमिति । तदेतन्नियमाभ्युपगमे
वेदितव्यमिति ( वात्स्या० ५।२।१३ ) । नियमश्चैकस्यैव हेतोर्दृष्टान्तस्य
वा प्रयोगः कर्तव्य इत्याकारको वादिप्रतिबाधुभयसंमतः पूर्वकृतः संकेतः ।
[ख] कृतकर्तव्यापुनरुक्ताभिधानम् (गौ००५/२/१३ ) । अनु-
वादस्तु न कृतकर्तव्यः साभिप्रायत्वात् । प्रतिज्ञाधिक्यं च पुनरुक्तम् ।
धूमादालोकात् महानसवत् चश्वरवत् इत्यादिकं तु विना समयबन्धं
दादर्यादिभ्रमादुक्तमधिकम् । यथा महानसं महानसवत् इति तु
नाधिकं किं तु पुनरुक्तम् ( गौ० वृ० ५/२/१३ ) ।
 
[ग] अधिकहेत्वादिकथनम् । यथा शब्दोनित्यः शब्दत्वाच्छ्रावणवा
चेत्यादि (नील० ) ( दि० १ ) ।
 
-
 
अधिकरणम् - ( कारकम् ) यद्धातूप स्थाप्ययादृशार्थे विग्रहस्थया सप्त-
म्या यः स्वार्थोनुभाव्यते तदेव तद्धातूपस्थाप्यतादृशक्रियायामधिकरणं
नाम कारकम् । यथा मामे गन्तेत्यादौं । अत्र धात्वर्ये गतौ ग्रामनिष्ठम-