This page has not been fully proofread.

५८६
 
न्यायकोशः ।
 
२।६।९) इति । प्रागभावलक्षणं तु विनाश्यभावत्वम् (मु०) ( न्या०
म० १ पृ० ११ ) ( त० सं० ) । अत्रायं विशेषो ज्ञेयः । प्रागभावस्य
सामान्यधर्मावच्छिन्न प्रतियोगिताकत्वं नास्ति । किंतु तत्तद्व्यक्तित्वावच्छिन्न-
प्रतियोगिताकत्वमेच इति ( वाच० ) । शाब्दिकास्तु कारणे शक्तिरूपेणा-
वस्थानम् इत्याहुः (३० म० धात्व० पृ० ६ ) । सांख्यास्तु भावस्या-
नागतावस्यैव प्रागभावः इत्याहुः ।
 
प्राग्देशम् - अभिजित् (पु० चि० पृ० ३५४ )।
प्राङ्यायः - आचारेणावसन्नोपि पुनर्लेखयते यदि । सोभिधेयो जितः
पूर्वे प्राङ्न्यायस्तु स उच्यते ॥ ( मिताक्षरा अ० २ श्लो० ७)।
प्राची - (दिक् ) [ क] यदपेक्षया सूर्योदयाचलसंनिहिता या दिक् सा
तदपेक्षया प्राची । संनिधानं तु संयुक्तसंयोगाल्पीयस्त्वम् । ते च सूर्य-
संयोगा अल्पीयांसो भूयांसो वा दिगुपनेयाः (वै० उ० २१२।१०) ।
अत्र व्युत्पत्तिः प्राक् अस्यां सविता अञ्चति इति प्राची ( वै० उ०
२।२।१४ ) । [ ख ] यस्यां दिशि मेरुप्रदक्षिणकमेण भ्रमत आदि-
त्यस्य प्रथमं संयोगो भूतपूर्वो भविष्यन्वा भवन्वा सा दिक्प्राची
(वै० उ० २।२।१४ ) । अत्र सूत्रम् आदित्यसंयोगाद्भुतपूर्वाद्भवि-
ष्यतो भूताच प्राची (वै० २१ २११४ ) । अत्र पुरुषाभिसंघिभेदमा-
श्रित्य कालत्रयोपवर्णनम् । भवति हि कस्यचित् पूर्वेयुः प्रातरस्यां
दिशि आदित्यसंयोगः प्रथमं वृत्तः इति इयं प्राची इति प्राचीव्यव-
हारः । कस्यचित् अपरेधुरस्यामादित्यसंयोगः प्रथमं भावी इत्यभिसं-
धाय प्राचीव्यवहारः । कस्यचित् इदानीमस्यामादित्यसंयोगो भवनस्ति
इत्यभिसंधाय प्राचीव्यवहारः । सूत्रे भूतादित्यत्रादि
कर्मणि क्तप्रत्ययः
(वै० उ० २।२।१४) । एवम् दिगन्तरव्यवहारोपि स्वयं परिकल्पनीयः ।
[ग] उदयाचलसंनिहितदेशावच्छिन्ना दिक् (वाक्य० १५०५ ) ।
[घ] उदयाचलसंनिहितमूर्तावच्छिन्ना दिक् (नील० ११० १० ) ।
 
उदयाचलसंनिहिता या दिक् सा ( न्या० बो० पृ० ३ ) ।
[च] यदपेक्षयोदयगिरिसंनिहितं यन्मूर्त सा ततः प्राची । तदपेक्षयो-