This page has not been fully proofread.

म्यादकोशः +
 
प्रसादः कर्तृत्वनिर्वाहकं वरप्रदानम् ( कि० ० ६ ) । यथा प्रसादं
कुरु देवेश इत्यादौ । कर्तृत्वनिर्वाहश्च फलप्राध्या भवति ।
प्रसारणम् – (कर्म) [क] शरीरविप्रकृष्टहेतुः कर्मविशेष: ( त० सं० )
( त० कौ० ) । ऋजुतासंपादकम् इत्यर्थ: ( त० दी० ) । लक्षणं च
दूरदेशसंयोगजनक क्रियानुकूलक्रियात्वम् ( ल० व० ) । [ख] एवमाकु-
ञ्चितामानां यत्कर्मोत्पद्यते पुनः । अनारम्भकसंयोगनाशकं तत्प्रसारणम् ॥
( त० ब० पृ० २४१ ) । [ग] आकुञ्चनविपर्ययेण संयोगविभागो-
त्पत्तौ येन कर्मणावयवी ऋजुः संपाद्यते तत् प्रसारणम् ( प्रशस्त पृ०
३७) । [घ ] प्रसारणत्वजातिमत् । [ङ ] विस्तार करणक्रिया विशेषः
इति केचित् ( वाच० ) ।
 
-
 
प्रसिद्धिः - १ ज्ञानम् । २ ख्यातिः । ३ भूषणम् । ४ टङ्कारः इति
केचिदाः ( वाच० ) ।
 
-
 
प्रसुप्तत्वम् – प्रबोधसह कार्यभावेनानभिव्यक्तिः (सर्व० सं० पृ०३५९पात ० ) ।
प्रस्तावना .१ आरम्भः । यथा आर्य बालचरितप्रस्तावनाडिण्डिमः
( वीरच० ) इत्यादौ । २ आमुखाख्यं नाटकाङ्गम् इति साहित्यशास्त्रज्ञा
आदु: ( वाच० ) । तदुक्तम् आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि
सा ( सा० ६० परि० ६ श्लो० २८७ ) इति ।
 
प्रस्थानम् -१ गमनम् । २ अभीष्टवस्तुचालनम् इति मौहूर्तिका आहुः
( धर्मसिन्धौ प० ३१० ११७) ।
 
प्रागभावः -( अभाव: ) [ क ] प्रतियोगिसमबायिकारणवृत्तिः प्रतियोगि-
जनकः भविष्यति इति व्यवहारहेतुरभावः (त० दी० ) ( न्या० म०
पृ० ११ ) ( त० प्र० ) । यथा इह कपाले घटो भविष्यति इति
प्रतीतिसाक्षिकः अभावः ( त० कौ० ) ( प्र० प्र० ) 1 [ ख ] उत्पत्तेः
प्राक् समचायिकारणे कार्यस्य संसर्गाभावः । [ग] अनित्यः अनादि-
तमः प्रागभावः ( सर्व० सं० पृ० २३२ अक्षपा० ) । अत्रेदं बोध्यम् ।
उत्पन्नस्यैव पुनरुत्पत्यापत्तिनिवारणार्थ प्रागभाषः अवश्यं स्वीकार्यः ।
सत्र कार्यस्थोत्पत्तेः पूर्व कार्यस्य समवाधिकारणे तिष्ठति ( त० व०
 
७४ न्या० को०