2023-02-20 00:56:01 by ambuda-bot
This page has not been fully proofread.
MICH
।
प्रासण्यप्रतिषेधशब्दस्य व्युत्पतिस्तु प्रसज्य विधाय विहितस्य प्रतिषेधः
इति । प्रसज्य क्रियागुणौ ततः पश्चानिवृत्तिं करोति इति महाभाष्य-
प्रामाण्यात् ( ल० म० ) । केचित्तु प्रसज्य प्रसक्तिं संपाद्य ( आरो-
व्येति यावत् ) प्रतिषेधः इत्याहुः । अत्रायं विवेकः । प्रसक्तं हि प्रति-
विष्यते इति न्यायेनारोपित प्रसङ्गस्यैव निषेधः । तेन वायौ रूपं नास्ती-
यादावपि वायौ रूपारोपं कृत्वैव निषेधो नत्रा बोध्यते इति (वाच० ) ।
अत्रायमप्यन्यो विशेषः । प्रसज्यनत्रा तत्पुरुषो भावकृदन्तपदयोग एव ।
म घटादिपदयोगे । वादिनामविवाद इत्यायुदाहरणेषु भाव कृदन्तस्यैवो-
तरपदत्वात् इति संप्रदायविद आहुः ( श० प्र० ) । [ ख ] शाब्दि-
कादयस्तु यस्यार्थस्य धात्वर्थेनान्वयो नञा प्रत्याय्यते सः । यथा न
कलशं भक्षये दिव्यादौ नञर्थः प्रसज्यप्रतिषेधः इत्याहुः । तदुक्तमभियुक्तैः
प्रसज्यप्रतिषेधः स्यात्क्रियया सह यत्र नञ् इति । अत्र विशेषः । न
कलशं भक्षयेदित्यत्र बलवदनिष्टासाधनत्व विशिष्टेष्टसाधनत्वरूपस्य विष्य-
र्थस्याभावो नञा भक्षणक्रियायां बोध्यते । तेन विधेरप्राधान्यम् नञर्था-
भावस्य च प्राधान्यम् । तेन तत्र क्रियापदान्वयी नञ् प्रसज्यप्रतिषेधार्थकः ।
तदुक्तम् अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोसौ
कियया सह यत्र नञ् ॥ इति । अमुक्ता भवता नाथ मुहूर्तमपि सा
पुरा इत्यादावमुक्तेत्यत्र नञः प्रसज्यप्रतिषेधार्थत्वमिति विधेयत्वमेवो-
चितम् इति । न कलञ्जमित्यत्र गुरुमते तु कलशभक्षणाभाव
विषयकं
कार्यम् इति बोधेनाभावविशेष्यकबोधेपि प्रतिषेधस्य प्राधान्यात् तथा-
त्वम् । तथा च तन्मते कचित् विधेरप्राधान्येन कचिच प्रतिषे-
धस्य प्राधान्येन इति व्यस्तमेव प्रसज्यप्रतिषेधप्रबोधप्रयोजकम् इति
बोध्यम् (वाच० ) ।
k
प्रसञ्जनम् – १ [ क ] आपादनम् । यथा अत्र घटः स्यात् तर्धुपलभ्येत
इति । [ ख ] आहार्यारोपः ( राम० ) । यथा यदि पर्वतो निर्वह्निः
स्यात्तर्हि निर्धूमः स्यात् इति । २ कचित् तुल्यत्वेनाभावयोः प्रतिभाव-
बचनम् प्रसञ्जनम् ।