This page has not been fully proofread.

न्यायकोशः ।
 
-
 
प्रसङ्गसमः – ( जाति: ) [ क ] दृष्टान्तस्य कारणानपदेशात्प्रत्यबस्थाना-
प्रसङ्गसमः ( गौ० ५११९ ) । साधनस्यापि साधनं वक्तव्यमिति
प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः । क्रियाहेतुगुणयोगी क्रियावाँलोष्ट
इति हेतुर्नापदिश्यते । न च हेतुमन्तरेण सिद्धिरस्तीति (वात्स्या०
५ । १ । ९ ) । अत्र वृत्तिः । दृष्टान्तस्य कारणं प्रमाणम् । तदनपदेशो-
नभिधानम् । अभिधानं चानतिप्रयोजकम् । तथा च दृष्टान्तस्य साध्य-
बत्त्वे प्रमाणाभावात् प्रत्यवस्थानम् अर्थः । यद्यपीदं सदुत्तरमेव तथापि
दृष्टान्ते प्रमाणं वाच्यम् तत्रापि प्रमाणान्तरम् इत्यनवस्थया प्रत्यवस्थाने
तात्पर्यम् । तदुक्तमाचार्यैः अनवस्थाभासप्रसङ्गः प्रसङ्गसमः इति ।
एतन्मते हेतोर्हेत्वन्तरम् इत्यनवस्थापि प्रसङ्गसम एव । पूर्वमते तु हेत्व-
नवस्थादिकं वक्ष्यमाणाकृतिगणेष्वन्तर्भूतम् इति विशेषः । अनवस्था-
देशनाभासोयम् इति विज्ञेयम् ( गौ० दृ० ५/१९) । [ख] साधन-
परंपराप्रश्नः । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टव दिल्यादौ
क्रियावत्वे क्रियाहेतुगुणवत्वं साधनम् । तत्र किं साधनम् । न हि
साधनं विना कस्यचित्सिद्धिरस्ति । एवं तत्रापि किं साधनम् इत्यादि
( नील० पृ० ४४ ) । [ग] अनवस्थाभासप्रसङ्गः प्रसङ्गसमः इत्यु-
दयनाचार्या : आहुः ( गौ० वृ० ५/१/९) । तथा चोक्तम् सिद्धे
दृष्टान्त हेत्वादौ कारणप्रश्नपूर्वकम् । अनवस्थाभासवाचः प्रसङ्गसम-
जातिता ॥ इति ( ता० र० परि० २ श्लो० ११३ ) ।
 
प्रसङ्गी—सवनीयपुरोडाश: ( जै० न्या० अ० ११ पा० ३ अधि० १६) ।
 
-
 
प्रसज्य: – १ प्रसज्यप्रतिषेधवदस्यार्थोनुसंधेयः । अत्रार्थे भीमो भीमसेनवत्
प्रसज्यप्रतिषेधशब्दस्यान्त्यलोपे प्रसज्य इति रूपं सिद्ध्यति । २ प्रसञ्जन-
कर्मभूतः । आपाद्यः इति यावत् ।
 
-
 
प्रसज्यप्रतिषेधः – (नञर्थः ) [ क ] संसर्गाभावः । तदर्थश्च किया-
समभिव्याहृतनञ्प्रतिपाद्योत्यन्ताभावः इति ( ल० म० ) । यथा चैत्रो
न पचतीत्यादौ नञर्थ: (चि० ) । अत्र पाककृत्यभाववाँश्चैत्रः इति
शाब्दबोधः । यथा वा भूतले घटो नास्तीत्यादौ नञर्थोत्यन्ताभावः ।