2023-02-20 00:56:00 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
-
प्रश्वासः–कोष्ठ्यस्य वायोः बहिर्निःसारणम् (सर्व० सं० पृ० ३७६ पातञ्ज ० ) ।
प्रष्ठाही – यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति ताव-
द्वयस्का प्रष्ठौही ( जै० न्या० अ० ४ पा० ४ अधि० १ ) ।
प्रसक्तिः - १ अनुमिति: (दीधि ० ) । २ आपत्तिः । ३ प्रसङ्गः । ४ व्याप्तिः ।
यथा अतिप्रसक्तिरन्यधर्मत्वे ( सां० सू० अ० १ सू० ५३) इत्यादौ ।
तदर्थश्च बन्धतत्कारणयोर्भिन्नधर्मत्वेतिप्रसक्तिः मुक्तस्यापि बन्धापत्तिः
इति ( सां० प्र० भा० ११५३ ) । तथा च अत्र अतिप्रसक्तिः अति-
व्याप्तिरित्यर्थः । ५ प्राप्तिः । यथा प्रसक्तं हि निषिभ्यते इत्यादौ ।
प्रसङ्गः – १ ( संगतिः ) [ क ] उपोद्धातादिभिन्न स्मरणप्रयोजकसंबन्धः
( राम० ) । प्रतियोगित्वानुयोगित्वा धारत्वादीनामप्यत्रैवान्तर्भाषः ( म०
प्र० २ पृ० १५ ) । प्रसङ्गत्वं च संगतित्वे सत्युपोद्धातादिभिन्नत्वम्
( जगदीश: ) । [ ख ] स्मृतस्योपेक्षानर्हत्वम् (नील० ११० १५ )
( म० प्र० २ पृ० १५) । यथा यथार्थानुभवरूपप्रमाविभजनानन्तरं
प्रमाकरणविभजने प्रसङ्ग संगतिः ( त० दी० १ पृ० १५ ) । स्मृत-
स्योपेक्षा नर्हत्वमित्यस्यार्थश्च स्मृतिकालावच्छेदेनोपेक्षानईत्वम् (भवा० ) ।
यद्वा द्वेषविषयतानवच्छेदकः स्मृतिविषयतावच्छेदको धर्मः इति ( अनु-
मितिग्रन्थे गदाधरः ) । अथवा स्मृतिकालावच्छिन्नोपेक्षानर्हतावच्छेदकधर्म-
वत्त्वम् (वै० सा० द० ) । २ व्याप्तिरूपः प्रकृष्टसंबन्धः । यथा अतिप्रसङ्गः
अप्रसङ्गः इत्यादौ । ३ वैयाकरणास्तु प्राप्तिः । यथा कृताकृत प्रसङ्ग नित्यम्
तद्विपरीत मनित्यम् (परिभाषेन्दु० पृ० ८१) इत्यादौ इत्याहुः । ४ मीमां-
सकास्तु अन्योद्देशेन प्रवृत्तौ तदन्यस्यापि सिद्धिः प्रसङ्गः । अथवा अन्यो-
देशे नान्यदी यस्यापि सहानुष्ठानं प्रसङ्गः ( जै० न्या० अ० १२ पा० १
अधि० १ ) । यथा पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रमध्यपातिनः
पुरोडाशस्याप्युपकारः सिद्ध्यति । यथा वा तप्ते पयसि दध्यानयति सा
वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् इत्यत्र आमिक्षार्थ प्रवृत्तौ अनुदेश्य-
वाजिनस्यापि सिद्धिः । यथा वा काम्ययागनिष्पत्यर्थमनुष्ठितैराग्नेयादिमि-
र्नित्ययागादिसिद्धिः इत्याहुः ( मिता० ) ( प्रा० त० ) ( वाच ० ) ।
पंटर