This page has not been fully proofread.

न्यायकोशर
 
यस्ताः पुरुषमेदसनुबिधीयमाना उभवरूपा भवन्ति । वीतरागप्रवृत्तिरे-
कथा । तत्र या वीतरागाणां प्रवृत्तिः सा खल्वेकरूपा । अनिष्टप्रतिषे-
धार्था । अनिष्टं हास्याम इत्येव ते प्रबर्तन्ते । न पुनरेषां क्वचिदभिष-
शोस्ति । रागादिमध्प्रवृत्तिस्तु द्विरूपा । ये तु रागादिमन्तस्तेषां याः
अवृत्तयस्ता द्विविधा भवन्ति । इष्टानिष्टविषयाधिगमप्रतिषेधार्थाः । इष्ट-
माप्स्यामीति सक्तः प्रवर्तते । अनिष्टं हास्यामीति द्वेषान्निवर्तते । रागादि-
मत्प्रवृत्तेरपि द्वैविध्यं भवति । समर्थासमर्थभेदात् । या खलु रागादिम-
प्रवृत्तिः सा समर्था असमर्था च भवति । इष्टमाप्स्यामीति प्रवर्तमानो यदा
प्रामोति तदा समर्था । तथा अनिष्टं हास्यामीति प्रवर्तमानो यदा जहाति
तदा समर्था । यदा विपर्ययस्तदा असमर्थेति ( न्या० वा० पृ० ३ )।
भट्टपादा आडुः । लोके प्रवृत्तिर्द्वधा । स्वेच्छाधीना परप्रेरणाजन्या च ।
तत्राद्यायां प्रवर्तनाया अनुपयोगेपि द्वितीय प्रवृत्तौ सा प्रयोजिका ।
माचार्यप्रेरणयेदं करोमि इति व्यवहारात् ( दि० गु० प्रयत्ननि ०
पृ० २२६ ) । २ शब्दानामर्थबोधनशक्तिविशेषः प्रवृत्तिः । यथा
प्रवृत्तिरासीच्छन्दानां चरितार्था चतुष्टयी ( कुमार० २११७) इत्यादौ ।
३ स्वविषय इन्द्रियादीनां संचारः । ४ प्रवाहः । ५ बार्ता इति
काव्यज्ञा आहुः ( वाच० ) ।
 
प्रवृत्तिनिमित्तम् –[ क ] पदशक्यताबच्छेदकम् । यथा घटत्वं घटपदस्य
प्रवृत्तिनिमित्तम् । एवम् शुक्कादिपदस्य शुकृत्वम् पाचकादेः पाकः
देवदत्तादेस्तत्तत्पिण्डादि प्रवृत्तिनिमित्तं भवति । प्रवृत्तिनिमित्तशब्दस्य
व्युत्पत्तिः प्रवृत्तेः शब्दानामर्थबोधनशक्तेः निमित्तं प्रयोजकम् इति ।
तब शक्यतावच्छेदकं भवति इति ज्ञेयम् । तलक्षणं च प्रकारतया
शक्तिमह विषयत्वम् ( चि० ) । अथवा वाध्यत्वे सति वाच्यवृत्तित्वे सति
वाच्योपस्थितिप्रकारत्वम् इति ( ग० शक्ति ० ) । [ख] निरवच्छिन्न-
विशेष्यता निरूपितप्रकारतावत् इति शाब्दिका वदन्ति ।
प्रवेश: – पुत्रोद्वाहः प्रवेशाख्य: ( पु० चि० पृ० ४५० ३ ।
अक्षय्—–—निष्क्रमणबदस्यार्थोनुसंधेयः ।