This page has not been fully proofread.

न्यायकोशः ।
 
करोमि हविषा यागं करोमि इत्याद्यनुष्यवसायात् । तृतीया च यत्साघ-
नताज्ञानाधीना चिकीर्षा तन्निष्ठा । तच्च जलाहरणस्वर्गौदनादिरूपम् ।
जलाहरणमुद्दिश्य घटं करोमि स्वर्गमुद्दिश्य यागं करोमि इत्यनुव्यवसायात्
इति (मु०म० ) ( बाच०)। [ख] चिकीर्षाजन्यो यत्नः ( त० कौ ० ) ।
यथा विद्यार्थी विद्यायां प्रवर्तते इति । [ग] तस्येप्साजिहासाप्रयुक्तस्य
समीहा (वात्स्या० १।१।१ प्रस्तावना ) । तस्येत्यस्य ज्ञातुरित्यर्थः । [घ ]
प्रवृत्तिर्वाम्बुद्धिशरीरारम्भः ( गौ० १ । १ । १७) इति । तदर्थच बागारम्भो
वाचिकी प्रवृत्तिः । सत्यं प्रियं हितमिति पुण्या । असत्यमप्रियमहितमिति
पापा । बुद्धिः बुध्यते ज्ञायतेनेनेति मन उच्यते । तेन मानसी प्रवृत्ति
र्भूतदयादिः । शारीरी प्रवृत्तिः दानं परिचरणमित्यादिका दशविधा पापा
दशविधा पुण्या चेति ( वै० उ० ६ । २ । १४ ) । शरीरेण मनसा वाचा
च प्रवृत्तिरारभ्यते । सेयं प्रवृत्तिः द्विविधा पुण्या च पापा च पुण्या
दशविधा कायेन परित्राणम् परिचरणम् दानमिति । वाचा सत्यम् हितम्
प्रियम् स्वाध्यायः इति । मनसा दया स्पृहा श्रद्धा चेति । विपर्ययेण
पापापि दशविधैव । प्रवृत्तिफले प्रवृत्त्युपचारः । तद्यथा अन्नं वै प्राणिनः
प्राणाः इति । प्रवृत्तिफलं धर्माधम ( न्या० वा० १।१।१७ पृ० ८५) ।
अत्र भाष्यम् । मनोत्र बुद्धिरित्यमिप्रेतम् । बुद्ध्यतेनेनेति बुद्धिः ।
सोयमारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः । तदे-
त्कृतभाष्यं द्वितीयसूत्र इति (वात्स्या० ११ १७) । प्रवृत्तिस्तु द्वयी ।
कारणरूपा कार्यरूपा च । द्वे अप्यात्मसमवेते । तत्राद्या जन्यत्वेना-
विशिष्टा विशिष्टा वा यत्नत्वजातिमती प्रत्यक्षसिद्धा । द्वितीया तु
धर्माधर्मरूपा यागादेरगम्यागमनादेश्च चिरध्वस्तस्य व्यापारतया कर्म-
नाशाजलस्पर्शादेः प्रायश्चित्तादेव नाश्यतया सिद्ध्यतीति ( गौ० वृ०
४।१।१ ) ( कु० ११९) । तदुक्तम् कर्मनाशाजलस्पर्शात्करतोया-
विलङ्घनात् । गण्डकीबाहुतरणाद्धर्मः क्षरति कीर्तनात् ॥ इति । अत्र
कर्मनाशा गयानिकटवृत्तिर्नदीविशेषः इति ज्ञेयम् । अत्र वार्तिककारा
आहुः । प्रवृत्तेर्हेविभ्यम् । पुरुषभेदानुविधानात् । तेषां पुरुषाणां प्रवृत्त