This page has not been fully proofread.

न्यायकोशः ।
 
प्रवृत्तिहीँच्छामपेक्षते । इच्छा चेष्टसाधनताज्ञानम् । तचेष्टसजातीयत्वे
लिङ्गानुभवम् । सोपीन्द्रियार्थसंनिकर्षम् ( कु० ५/६ ) । प्रवृत्तिं प्रति
चिकीर्षा कृतिसाध्यताज्ञानम् इष्टसाधनत्वज्ञानं च कारणम् ( भा०प०
को
१० १५१) । कृतिश्चात्र प्रवृत्तिरूपा बोध्या । तेन जीवनयोनियत्नसाध्ये
प्राणपश्चकसंचारे न प्रवृत्तिः अत्र मधुविषसंपृक्तान्नभोजनादौ प्रवृत्या-
पत्तिवारणाय चिकीर्षेति (मु० गु० पृ० २२२ - २२५ ) । भोजन-
नान्तरीयके श्रमे प्रवृत्तिवारणाय चिकीर्षा कारणम् इत्यवश्यं मन्तव्यम् ।
तेन इष्टसाधनत्वज्ञानस्य कारणत्वं व्यर्थम् । वृष्ट्यादौ प्रवृत्त्यापत्ते-
वरणाय कृतिसाध्यताज्ञानम् । अनिष्टसाधने प्रवृत्यापत्तिवारणायेष्ट-
साधनत्वज्ञानं च कारणमित्युक्तम् । किंत्वनिष्टसाधने चिकीर्षैव नास्ति ।
प्रवृत्ति प्रति चिकीर्षामात्रं कारणम् इति प्राभाकरा आहुः । प्राभाकरमते
शुक्तौ रजतार्थिप्रवृत्ति प्रति पुरोवर्तिनीष्टतावच्छेदकासंसर्गाग्रह एव हेतुः ।
न तु न्यायमतसिद्ध इष्टतावच्छेदकप्रकारकं ज्ञानं हेतुः ( त० प्र०
ख० ४ पृ० १३३ ) । प्राभाकराणामयमाशयः । कार्यत्वज्ञानं प्रवर्त-
कम् । तथाहि । ज्ञानस्य प्रवृत्ती जनयितव्यायां चिकीर्षातिरिक्तं नापे-
क्षितमस्ति । तत्सत्त्वे कृतिविलम्ब हेत्वन्तराभावात् । चिकीर्षा च कृति-
साभ्यताज्ञानसाध्या । इच्छायाः स्वप्रकारकधीसाध्यत्वम् इति नियमात् ।
अत एव स्वकृतिसाध्ये पाके प्रवर्तते । न त्विष्टसाधनताज्ञान-
साध्या । स्वकृत्यसाध्ये चन्द्रमण्डलानयनादौ चिकीर्षाया अदर्शनात्
(चि० ४) (मु० गु० पृ० २२२ - २२३ ) । अत्रेदं बोध्यम् ।
प्राभाकरमते प्रवृत्तेर्हि विषयता त्रिविधा । साध्यत्वाख्या उपादानस्वा-
परनाम्नी सिद्धत्वाच्या उद्देश्यत्वाख्या चेति । तत्राद्या यनिष्ठकृतिसाभ्य-
ताज्ञानचिकीर्षादिना प्रवृत्तिः तन्निष्ठा । सा च घटयागपाकादिनिष्ठैव ।
न तु तजनकीभूतकपालहविस्तण्डुलादिसिद्ध निष्ठा । अत एव घर्ट
करोमि यागं करोमि इत्याद्यनुव्यवसायः । न तु कपालहविरादेः सिद्धता-
दशायां कपालं करोमि हविः करोमि इत्यायनुव्यवसायः व्यवहारो वा ।
द्वितीया तु विषयता सिद्धकपालहविस्तण्डुलायुपायनिष्ठा । कपालेन घटं