2023-02-20 00:55:59 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
इदानींतनत्वं विशेषणं देयम् । तेन वक्ष्यमाणं सर्वे संगच्छते नानु -
पपत्तिश्च । तथाहि । दोषदूषितचित्तो विषभक्षणादौ प्रवर्तते । इदानीं
बलवदनिष्टाननुबन्धित्वज्ञानात् । तृप्तश्च भोजने न प्रवर्तते । इदानी-
मिष्टसाधनत्वाज्ञानात् । भावियौवराज्ये बालस्य न प्रवृत्तिः । इदानीं
कृतिसाध्यत्वाज्ञानात् ( दि० गु० १० २२५ ) । यथा वा जर
न्नैयायिकमते इष्टसाधनताविषयकं कृतिसाध्यताज्ञानमेव प्रवर्तकम् । यथा
वा प्राभाकरमते स्वविशेषणवत्ताप्रतिसंधानजन्यं कार्यताज्ञानं प्रवर्तकम्
(चि० 8 ) ( न्या० म० ४ पृ० २५-२७) ( दि० गु०
पृ० २२२-२२४ ) । स्वविशेषणवत्तेत्यादेरर्थश्च स्वम् प्रवर्तमानः
पुरुषः । तत्र विशेषणम् काम्ये हि यागादौ कामना । नित्ये संध्यावन्द-
नादौ तु विहितकालशौचादि । तद्वत्ता पक्षे तत्संबन्धः । तस्य प्रतिसंधा-
नम् तत्संबन्धज्ञानम् । तज्ज्ञानमेव वा परामर्शात्मकम् । तेन जन्यं कार्यता-
ज्ञानम् कृतिसाध्यताज्ञानम् अनुमित्यात्मकम् इति । तत्र स्वर्गकामो यजेत
भोजनकाम: पचेत इत्यादि काम्यम् । अहरहः संध्यामुपासीतेत्यादि नित्यम् ।
तथाच काम्यस्थले काम्यसाधनताज्ञानम् नित्यस्थले तु शौचादिज्ञानम्
इत्यर्थ: ( दि० गु० पृ० २२३ ) । अत्रानुमानप्रयोगः काम्ये पाको
मत्कृतिसाध्यो मत्कृतिं विना असवे सति मदिष्टसाधनत्वात् इति
( दि० गु० पृ० २२३ ) । नित्ये तु अहमिदानींतनकृतिसाध्यसंध्या-
वन्दनः संध्यासमये शौचादिमत्त्वात् पूर्वसंध्यायामहमिव इति ( चि० ४ ) ।
अत्र तदानींतनं स्वविशेषणम् इति वक्तव्यम् । तेन तृप्तश्च भोजने न
प्रवर्तते । तदानीं कामनायाः पुरुषविशेषणत्वाभावात् । प्रतिसंधानं
च बलवद निष्टाननुबन्धित्वविषयकम् इति वक्तव्यम् । तेन मधुविष-
संपृक्तान्नभोजने न प्रवृत्त्यापत्तिः । एवं च बलवदनिष्टाननुबन्धित्व-
विषयकं यत् स्वविशेषणवत्ताज्ञानम् तज्जन्यं कृतिसाभ्यताज्ञानं प्रवर्तकं
भवति इति निष्कृष्टोर्थ: ( दि० गु० पृ० २२३ ) । यथा वा चोद-
नेति क्रियायाः (नियोगस्य ) प्रवर्तकं ( ज्ञानद्वारा प्रवर्तकम् ) वचनम्
इत्यादौ ( शाबरभाष्यम् ) । अधिकं तु विधिशब्दे प्रवृत्तिशब्दे च सवि-
स्तरं संपादयिष्यते इति तत् तत्र द्रष्टव्यम् ।