This page has not been fully proofread.

इति (प० मा० पृ० ९३ ) । अन्यत्र चेत्थमुक्तम् । चतुर्णी महाभूतानां
संहार विधिदच्यते । ब्राह्मण मानेन वर्षशतान्ते वर्तमानस्य ब्रह्मणोपवर्ग-
काले संसारे खिन्नानां सर्वप्राणिनां निशि विश्रान्त्यर्थ सकलभुवनाधिपते-
महेश्वरस्य संजिहीर्षासमकालं शरीरेन्द्रियभूतोपनिबन्धकानां सर्वात्मगता-
नामदृष्ठानां वृत्तिनिरोधे सति महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः शरीरे-
न्द्रियकारणाणुविभागेभ्यः तत्संयोगनिवृत्तौ तेषां परमाण्वन्तो विनाशः ।
तथा पृथिव्युदकज्वलनपवमानानामपि महाभूतानामनेनैव क्रमेणोत्तर-
स्मिनुत्तरस्मिन् सति पूर्वस्य पूर्वस्य विनाशः । ततः प्रविभक्ताः परमाण-
बोबतिष्ठन्ते । धर्माधर्मसंस्कारानुविद्धा आत्मानस्ताबन्तमेव
 
( प्रशस्त ० १ १० ६ ) । न्यायमते स द्विविधः । खण्डप्रलयः महा-
प्रव्यश्च । तत्राद्यः सकळकार्यद्रव्यानाधारकार्याधिकरणसमयः ( न्या०
सि० दी० पृ० ७६ ) ( दि० ४ पृ० १८९ ) । सचागमप्रतिपाद्यः ।
 
गमस्तुनाहोन रात्रिर्न नभो न भूमिर्नासीत्तमो ज्योतिरभून्नचान्यत्
इति ( दि० ४ पृ० १८९) । द्वितीयस्तु सकलभावकार्यलयः ।
[ ] त्रैलोक्यनाशः इति मायावादिन आहुः ( वेदा० परि० विषयप ०
पृ० ८१ ) । [ग] पौराणिकास्तु भूतादिलयाधारः कालविशेषः
प्रलयः । स च चतुर्विधः । नित्यः नैमित्तिकः प्राकृतः आत्यन्तिकश्च
इत्याहुः । मायावादिनां मतेपि प्रलयश्चतुर्विधः । नित्यः प्राकृतः नैमित्तिकः
आत्यन्तिकश्चेति । तत्र नित्यप्रलयः सुषुप्तिः । प्राकृतप्रलयस्तु कार्यब्रह्म-
बिनाशनिमित्तकः सकलकार्यविनाशः । नैमित्तिकप्रलयस्तु कार्यब्रह्मणो
दिवसावसाननिमित्तकस्त्रैलोक्यमात्रप्रलयः । चतुर्थस्तु ब्रह्मसाक्षात्कार-
निमित्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव । नानाजीववादे तु
क्रमेण । सर्व एकीभवन्ति इत्यादिश्रुतेः (वेदा० प० विषयप० पृ०
८३-८४ ) इति । किंच युगप्रलयः मनुप्रलयः दिनप्रलय: महाप्रलय-
येति भेदेन चतुर्विधः प्रलयः इत्यपि पौराणिका वदन्ति । [घ ]
नष्टचेष्टता ( नैमित्तिकप्रलयः ) इति काव्यज्ञा आहुः । [ङ ] तदेतेषु
प्रलीनेषु निरुपलवविवेकख्यातिपरिपाक
वशात्कार्य कारणात्मकानां प्रधाने