This page has not been fully proofread.

५७२
 
न्यायकोशः ।
 
( वात्स्या० १११।२४ ) । प्रयोजनत्वं च प्रवृत्तिहेत्विच्छाविषयत्वम् ।
विषयत्वं च साध्यताख्यविषयताविशेषः ( गौ० वृ० १ । १ । २४ ) ।
अत्र वार्तिककारा आहुः । धर्मार्थकाममोक्षैः प्रयुज्यत इति केचित् ।
वयं तु पश्यामः । सुखदुःखाप्तिहानिभ्यां प्रयुज्यत इति । सुखदुःख-
साधनभावात्तु सर्वेर्थाश्चेतनं प्रयोजयन्तीति । तदिदं प्रयोजनं न्यायस्या-
श्रयः ( न्या० वा० १ पृ० १४ ) । [ख] येन प्रयुक्तः प्रवर्तते तत्
प्रयोजनम् । यमर्थमभीप्स जिहासन्वा कर्मारभते तेनानेन सर्वे प्राणिनः
सर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ताः । तदाश्रयश्च न्यायः प्रवर्तते
( वात्स्या० १।१।१ ) ( त० भा० पृ० ४२ ) ( न्या० वा० १
पृ० १४ ) । [ ग ] यदुद्दिश्य प्रवर्तन्ते पुरुषास्तरप्रयोजनम् ( ता० २०
श्लो०
१० ५६ ) । [घ ] साध्यतयेच्छाविषयः ( दि० १ ) । यथा सुखं
दुःखहानिश्च प्रयोजनम् ( त० दी० ) ( त० भा० पृ० ४२ ) ।
प्रयोजनं द्विविधम् । मुख्यम् गौणं च । तत्राद्यम् सुखं दुःखहानिश्च ।
द्वितीयम् यागभोजनादिकम् । प्रयोजनस्य मुख्यत्वं च निरुपाधीच्छा-
विषयत्वम् ( चि० ४ ) ( गौ० वृ० ११ १२४ ) । इतरेच्छानधीने-
च्छाविषयत्वं वा । समानाधिकरणेच्छाजन्येच्छाविषयत्वं वा ( अत्र
अजन्येति पदच्छेदः) । प्रयोजनाजनकप्रयोजनत्वं वा ( न्या० सि०
दी० पृ० ७० ) । प्रयोजनस्य गौणत्वं च मुख्य प्रयोजनेच्छाधीनेच्छा-
विषयत्वम् ( गौ० वृ० १।१।२४ ) ।
 
प्रयोजनलक्षणा– निरूढलक्षणाभिन्ना लक्षणा । सा च षड़िधा । उपादान-
लक्षणा लक्षणलक्षणा गौणसारोपा गौणसाध्यवसाना शुद्धसारोपा शुद्ध-
साध्यवसाना ( सर्व० सं० पृ० ३७४ पातञ्ज ० ) ।
 
-
 
प्रयोज्यत्वम् -- १ प्रयोजकत्वनिरूपकत्वम् । २ प्रयुक्तत्ववदस्यार्थोनुसंधेयः ।
प्रलयः – [ कं ] अभाष: ( ध्वंस: ) ( गौ० वृ० ४ । २।१३) । यथा अब-
यवावयविप्रसन्न चैषमाप्रलयात् ( गौ० ४ । २ । १३) इति । यथा वा विश्व-
स्थितिप्रलय सर्ग महाविभूतिवृत्तिप्रकाशनियमावृतिबन्धमोक्षाः । यस्या अपा-
ङ्गलचमात्रतः ( द्वाद० स्तो० अ० ७ श्लो० १ ) इति । प्रलयसद्भावे प्रमाणं