This page has not been fully proofread.

न्यायकोचः ।
 
प्रयोजकत्वम् – १ [ क ] परंपरया ( न तु साक्षात् ) कार्यजनकत्वम् ।
यथा काश्यां मरणान्मुक्तिरित्यादौ मोक्षं प्रति काशीमरणस्य प्रयोजकत्वम् ।
अत्र मुक्तौ तस्वज्ञानस्यैष साक्षात्कारणत्वम् । काशीमरणस्य तु मुक्तौ
परंपरया कारणत्वम् इति तस्य प्रयोजकत्वं ज्ञेयम् ( त० प्र० १
मङ्गल० ) । अत्रेदं तत्त्वम् । यस्यानुकूलतर्कोस्ति स एव स्यात्प्रयोजकः
हेतुः इति । यस्यानुकूलतर्कामावः सोन्यथासिद्ध: ( ता० २० लो०८७-
८८ ) । अत्र वदन्ति कारणस्य यत् कारणम् तस्य प्रयोजकत्वम् इति ।
अत्र गुरुचरणाः प्राडुः तनिष्ठान्यथासिद्धिभिन्नान्यथासिद्धिशून्यत्वे सति
कार्याव्यवहितपूर्ववृत्तित्वम् इति । [ख] स्वरूपसंबन्धविशेषः । यथा
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानां मध्ये यदुत्तरोत्तरम् तेषामपाये तत्पूर्व-
स्यापायादपवर्गः इत्यादौ पञ्चम्यर्थः । यथा वा दण्डाभावाद्धटाभाव
इत्यादौ दण्डाद्यन्वयी पञ्चम्यर्थ: प्रयोजकत्वम् ( गौ० वृ० १ । १ । २ ) ।
२ हेतुबम् । तच ज्ञापकज्ञानविषयत्वम् । यथा पर्वतो बह्निमान् घूमा-
दित्यादौ धूमस्य प्रयोजकत्वम् ( ग० व्यु० का० ३ १० ८७)।
३ वैयाकरणास्तु हेतुसंज्ञककर्तृत्वम् । यथा तत्प्रयोजको हेतुश्च
(पा० सू० १/४/५५ ) इत्यादौ इत्याहुः । यथा वा धर्मशास्त्रे प्रयोज-
यिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः । यो भूय आरभते
तस्मिन् फळविशेष: ( आपस्त० सू० २।११।२९।१-२) इत्यादौ
प्रयोजकत्वम् । अत्र प्रयोजकस्य हृन्तृत्वम् ( प्रा० वि०) निर्णीतं यथा
निरन्तरव्यापाराव्यवधानेन वधनिष्पादकः कर्ता । यः कर्तारं कारयति स
प्रयोजकः । सोपि द्विविधः । तत्रैकः स्वतोप्रवृत्तं पदातिं वेतनादिना
वधार्थ प्रवर्तयति । अपरस्तु स्वतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना
प्रोत्साहयति इति ( वाच० ) ।
 
प्रयोजनम् – [क] यमर्थमधिकृत्य प्रषर्तते तत् प्रयोजनम् ( गौ०
१।१।२४ ) । यमर्थमाप्तव्यं हातव्यं वाध्यवसाय तदाप्तिहानोपायमनु-
तिष्ठति प्रयोजनं तद्वेदितव्यम् । प्रवृत्तिहेतुत्वात् । इममर्थमाप्स्यामि
हास्यामि वेति व्यवसायोर्थस्याधिकारः । एवं व्यवसीयमानोर्थोधिक्रियत इति