This page has not been fully proofread.

न्यायकोचः ।
 
प्रयोगः इति बदन्ति । ४ यज्ञादिक्रियाकलापेतिकर्तव्यता बोधकानां
समुज्जयप्रतिपादकः पद्धत्यपरपर्यायो ग्रन्थः इति याज्ञिका आहुः ।
५ उत्तमर्णेन स्वद्रब्यस्य वृद्धार्थ मधमर्णाय दानं प्रयोगः इति व्यवहारज्ञा
बदन्ति । ६ भूतप्रेतायुच्चाटनसाधनमब्रोच्चारणाद्यनुष्ठानम् इति ताचिका
७ नायकयोर्मेलने क्रियाविशेषः इत्यालंकारिका आहुः ।
८ शस्त्रादिमोचनम् इति योद्धारो वदन्ति ।
 
आहुः ।
 
प्रयोग विधिः -- ( विधिः ) [ क ] प्रयोगाविलम्बबोधको विधिविशेषः ।
स च प्रयोगविधिः प्रयाजाद्यङ्गजातवाक्यैकवाक्यतामापन्नो दर्शपूर्ण-
मासाभ्यां स्वर्गकामो यजेत इत्यादिप्रधानविधिरेवोक्तवक्ष्यमाण विधित्रय-
मेलनरूपश्चतुर्थोयं विधिः न तु विध्यन्तरम् ( लौ० मा० टी० पृ० ३० ) ।
[ख] अङ्गानां क्रमबोधको विधि: ( लौ० भा० पृ० ३० - ३१ ) ।
अत्र क्रमो नाम विततिविशेषः । पौर्वापर्यरूपो वा । तत्र क्रमे षट् प्रमा-
णानि श्रुति अर्थ पाठ स्थान मुख्य प्रवृत्ति इत्याख्यानि इति ( लौ० भा०
पृ० ३१ ) ( म० प्र० ४ पृ० ६२ ) । अत्र उत्तरोत्तरमपेक्ष्य पूर्वपूर्व
बलीयः इति विज्ञेयम् । टीकायां चेत्थमुक्तम् । वितननं वितानो वा
विततिः । तनु विस्तारे इति धातोर्भावे क्तिः । तथा च बहुभिः कर्तृभि-
युगपत् कृतानामपि पदार्थानां वितानविशेषो भवत्येव न तु क्रमव्यवहारः ।
तथाच तत्र प्रथमलक्षणस्यातिव्याप्तिः इत्यरुच्या लक्षणान्तरमाह पौर्वा -
पर्येति ( लौ० भा० टी० पृ० ३१ ) । [ग] अनुष्ठीयमानपदार्थानां
क्रमबोधको विधिः । यथा वेदं कृत्वा वेदिं करोति इत्यादि । अत्र क्रमस्तु
अव्यवहितोत्तरत्वम् (भाट्टदी० ) । अथवा अव्यवहितपौर्वापर्यम् । स च
प्रयोगविधिः अङ्गविध्येकवाक्यतापन्नः प्रधानविधिरेव । तेन क्रमेण
( केवलक्रमेण ) पदार्थानामनुष्ठानात् ( म० प्र० ४ पृ० ३२)
( लौ० भा० ३१ ३३ ) । यथा वा अग्निहोत्रं जुहोति यवागूं पचति
इत्यादि । अत्र पाठक्रमादर्थक्रमो बलीयान् इति पाठक्रमं परित्यज्वार्थ-
क्रम एवाश्रीयते । इत्थं च पूर्व यवागूपाकः ततो यवाग्वाग्निहोत्रहोमः
( म० प्र० पृ० ६२ ) (लौ० मा० ३३ ) । [घ ] प्रयोगप्राशुभाव-
बोषको विधिः प्रयोगविधिः ( मी० न्या० १० २७ ) ।