This page has not been fully proofread.

मितिः -- प्रमविदयार्थीनुसंधेयः (कु० टी० 91५ ) ।
 
प्रजम् - १ [ क ] योर्थः तस्वतः प्रमीयते तत्प्रमेयम् ( वात्स्या० ११ १२ १
प्रस्तावना ) । यथा घटपटादि सर्वे जगत्प्रमेयम् । अत्र प्रमेयत्वं च
ईश्वरीयप्रमाविषयत्वम् ( त० दी० २ ) । तब केवलान्वयि । सर्वस्यापि
जगत ईश्वज्ञानरूपप्रमाविषयत्वात् ( न्या० म० ) । सामान्यतः प्रमा-
विषयत्वं वा प्रमेयत्वम् । मायावादिमते विशुद्धं चैतन्यमेव प्रमेयम् ।
[ख] संसार हेतुमिथ्याज्ञान विषयः मोक्षहेतुधीविषयो वा । यथा आत्म-
शरीरादि प्रमेयम् । न्यायमचे द्वादशविधं प्रमेयम् । आमा शरीरम्
इन्द्रियम् अर्थः बुद्धिः मनः प्रवृत्ति दोषः प्रेत्यभावः फलम् दुःखम्
अपवर्तव (गौ० ११ १९ ) इति । अत्र प्रमेयत्वं च तत्त्वज्ञाननिया-
मकतावच्छेदकम् इति ज्ञेयम् । २ परिच्छेद्यम् । ३ अवधारणविषयः
(अवधार्यम् ) इति काव्यज्ञा आहुः ।
 
प्रयः (गुणः ) १ [क] प्रयतः संरम्भः उत्साहः इति पर्यायः
( प्रशस्त ० २ पृ० ३३ ) । स च मनोप्रायः (भा०प० हों० ५८)
निराकारः सविषयकः आत्ममात्रधर्मश्च इति विज्ञेयम् । प्रयत्नलक्षणं च
कृतित्वजातिमत्वम् ( वाक्य० गु० पृ० २१) । अथवा संस्कारेच्छा-
भिन्नत्वे सति संबन्धान वच्छिन्न प्रकारताकत्वम् (ल० ब० ) । [ ख]
प्रयत्नत्वसामान्यवान् उत्साहरूप: ( त० कौ० ) । तथा चोक्तम् । प्रयत्न -
स्त्वात्मधर्मः स्यादुत्साहो भावना च सः ( ता० र० परि० १
श्लों० ४६) इति । स च कृतिरित्युच्यते ( त० सं० ) । [ग] प्रयत्न-
ब्यवहारासाधारणं कारणम् ( प्र० प्र० १७) । यथा पचतीत्यादौ
तिबर्थ: । प्रयत्नव्यवहारश्च अहं यते स यतते इत्यादिष्यवहारः । स
त्रिविधः प्रवृत्तिः निवृत्तिः जीवनयोनियज्ञ श्चेति ( भा०प० लो० १५० )
( वा क्य० गु० पृ० २१ ) । प्रकारान्तरेण स प्रयमः द्विविधः जीवन-
पूर्वकः इच्छाद्वेषपूर्वकन्ध । तत्र जीवन पूर्वकः सुप्तस्य प्राणापानसंतान-
प्रेरक प्रबोधकाले चान्तःकरणस्येन्द्रियान्तरप्राप्तिहेतुः । अस्य जीवन-
संज्ञकस्यात्ममनसोः संयोगाद्धर्माधर्मापेक्षा दुत्पत्तिः (प्रशस्त ० २ ४०.३३) ।