This page has not been fully proofread.

न्यायकोशः ।
 
करादिमति करादिमद्विशेष्यकत्वे सति पुरुषत्वप्रकारकज्ञानत्वात् संप्रतिप-
नवत् द्वितीयानुव्यवसायेन गृहीतप्रामाण्यकपुरुषज्ञानवत् इति । यद्वा यन्त्र
पुरुषत्ववति पुरुषत्वज्ञानम् तन करादिमति पुरुषत्वज्ञानम् । यथा स्थाणौ
पुरुषत्वभ्रमः इति व्यतिरेकी ( न्या० म० पृ० ३५ ) ( त० प्र० ख० ४
पृ० १३२ ) ( म० प्र० ४ पृ० ७१ ) । अत्र च परतस्त्वं द्विविधम् ।
इसौ परतरत्वम् उत्पत्तौ परतस्त्वम् । अत्र प्रामाण्यस्य परत उत्पत्तिकत्वं
च ज्ञानसाक्षाद्विभाजकोपाभ्यवच्छिन्नकार्यताप्रतियोगिककारणतानिरूपित
कार्यताबस्वम् ( मू० म० प्रामा० ) । आद्यं यथा प्रथमजलज्ञानानन्तरं
प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्नज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात्
यत्प्रमा न भवति तत्समर्थप्रवृत्तिजनकं न भवति यथा अप्रमा ( जलभ्रमः )
इति व्यतिरेकिणानुमानेनानम्या सदशापन्नज्ञाने प्रमात्वं निश्चीयते इति ।
अनम्यासदशा पद्मप्राथमिकजलादिज्ञाने जाते तत्र प्रामाण्यसंशये सत्यपि
पुरुषः प्रवर्तते इति विशेषोत्र द्रष्टव्यः ( त० कौ० पृ० १८ ) । अत्रेदं
बोभ्यम् । प्रथमं जलजलत्वयोर्निर्विकल्पकम् । ततः इदं जलम् इति
विशिष्टज्ञानम् । तत इच्छा । ततः प्रवृत्तिः । तदनन्तरं जललाभः ( सि०
च० ) इति । अभ्यासदशा पन्नज्ञानेषु द्वितीयतृतीयादिजलादिज्ञानेषु तु
प्रवृत्तेः पूर्वमप्यन्वयव्यतिरेकिणापि पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेन
प्रामाण्यमवधार्यते । तद्यथा द्वितीयादिजलज्ञानं प्रमा समर्थप्रवृत्तिजनक-
जातीयत्वादाद्यजलज्ञानवत् ( त० कौ० पृ० १८ ) ( नील० ) इति ।
द्वितीयं उत्पत्तौ परतस्त्वं तु प्रमाया गुणजन्यत्वरूपम् । तद्यथा प्रत्यक्ष-
प्रमायां विशेषणवद्विशेष्यसंनिकर्षात्मक गुणजन्यत्वम् । अथवा भूयोषयवा-
बच्छेदेनेन्द्रियसंनिकर्षात्मकगुणजन्यत्वम् । एवमनुमितो व्यापकवति व्याप्य-
वत्ताज्ञानरूपगुणजन्यत्वम् उपमितौ यथार्थसादृश्यज्ञानात्मकगुणजन्यत्वम्
शाब्दबोधे च यथार्थयोग्यताज्ञानरूपगुणजन्यत्वं यथार्थबक्तृवाक्यार्थ-
ज्ञानरूपगुणजन्यस्त्वं वा उत्पत्तौ परतस्त्वम् इत्याचूहनीयम् ( नील ०
पृ० ३७ ) ( म० प्र० ४ पृ० ७३ ) । अत्रायं संग्रहः । प्रमाणत्वा-
प्रमाणत्वे स्वतः सांख्याः समाश्रिताः । नैयायिकास्ते परतः सौगता-
0
 
G