This page has not been fully proofread.

:
 
स्वप्रकाशवरूप्रदानस्वभावेन यथा सेनैव ज्ञानेन सदेव सिद्धपति तथा
सद्भुतं सरप्रकारकत्वरूपं प्रामाण्यमपि सिइस्पर्यः ( म० प्र०
१० ६८ ) । महास्तु ज्ञानं तावत्स्वविषये ज्ञातताख्यं फलं जनयति इति
निरूढम् । सयैवानुमेयं ज्ञानम् । तथा च ज्ञाततया ज्ञानानुमितिर्जायमाना
प्रामाण्यमपि विषयीकरोति इत्याहुः । स्वविषये इत्यस्य ज्ञानविषये घटादा-
वित्यर्थः । ज्ञातो घटः इति प्रतीतेर्ज्ञाताख्यं फलं जन्यते इति बोध्यम् ।
अस्यां प्रतीतौ ज्ञानं निमित्तकारणम् । घटादिकं समवायिकारणम् । असम-
बायिकारणं तु सापेक्षितम् । भावकार्यस्य सासमवाधिकारणकत्वम् इति
: नियमस्य अङ्गैरनङ्गीकरात् इति । ज्ञानं न प्रत्यक्षम् । अमवस्थापत्तेः ।
किंतु अनुमितिग्राह्यमेव इति भट्टमतम् ( त० प्र० ख० ४ पृ० १२९) ।
अनुमानं तु घटो ज्ञानवान् ज्ञाततावत्त्वात् इति ( म० प्र० पृ० ६७)।
तदर्थश्व ज्ञात्ततया घटो ज्ञानवान् ज्ञाततावत्वात् इत्यादिना ज्ञानवि-
धेयकानुमितिर्जायमाना घटत्ववति घटत्व प्रकारकत्वरूपं प्रामाण्य-
मपि विषयीकरोति ( त० प्र० ख० ४ पृ० १३० ) इति । घटो

घटत्नप्रकारकज्ञानविशेष्यः घटत्वप्रकारकज्ञाततावस्वात् इत्यनेन घटे
घटत्व प्रकास्कज्ञा नविशेष्यत्वानुमितिर्जायमामा घटविशेष्यकघटत्व प्रकारकत्वं
ज्ञानेपि विषयीकरोति । तयोः समानवित्तिवेद्यत्वादिति भावः ( म०प्र०
पृ० ६७) । मुरारिमिश्रास्तु तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वं
प्रामाण्यम् । तच्च घटमहं जानामि इति प्रथमानुष्यवसायेनैव गृह्यते ।
तथाहि घटत्ववांस्तावत् घटोयम् इति व्यवसायेनोपनीतः ( मनसा
सह संनिधापितः ) । अतः लद्वद्विशेष्यकता संसर्मरूपा ज्ञानेन मनसा
गुह्यते । विशेषणस्य पूर्वमुपस्थितत्वात् । एवम् वटवमपि व्यवसायेनैवो-
• पनीतम् । अतः तरप्रकारकता विषयतात्रन्सुग्रहा इत्युभवस्यैकप्रहेण
गृहीतं प्रामाण्यम् इत्याहु: (न्या० म० ४ पृ० ३३-२४ ) ( म० प्र० ) ।
नैयायिकास्तु परतः अनुमानादिना ज्ञानस्य प्रामाण्यं ब्राह्मम् उत्पाद्यं चेति
यद्रन्ति । अत्रायमर्थ: । द्वितीयानुव्यवसायेन प्रामाण्यं गृह्यते। तथाहि
मथमं अयं घटः इति ज्ञानम् । ततः ज्ञानज्ञानवे इति निर्विकल्पकम् ।