This page has not been fully proofread.

न्यायकोशः ।
 
प्रामाण्यमपि जायत इति । इसौ स्वतस्त्वं नाम ज्ञानप्राहकमात्रप्राह्यत्वम् ।
येन ज्ञानं गृह्यते तेनैव तद्गतं प्रामाण्यमपि गृह्यत इति। नैयायिकमते
परतस्त्वमपि द्विविधम् उत्पत्ती ज्ञप्तौ चेति । तत्र उत्पत्तौ परतस्त्वं नाम
ज्ञानकारणातिरिक्तकारणजन्यत्वम् । ज्ञप्तौ परतस्त्वं नाम ज्ञानप्राहका-
तिरिक्तग्राह्यत्वम् इति वस्तुस्थितिः ( प्र० च० परि० १ पृ० ४५ ) ।
मीमांसकाच त्रयो मिथो विप्रतिपन्नाः । प्रभाकरापरनामका गुरवः
तुताताख्या भट्टा: मुरारिनामका मिश्राश्चेति । तत्र गुरूणां मतम् ज्ञानस्य
स्वप्रकाशरूपत्वात्तज्ञानप्रामाण्यं तेनैव गृह्यते इति । भट्टानां मतं च ज्ञान-
मतीन्द्रियम् । ज्ञानजन्या ज्ञातता प्रत्यक्षा। तया च ज्ञानमनुमीयते । अत्रानु-
मानं तु घटो घटत्ववद्विशेष्यकघटत्व प्रकारकज्ञानविषयो घटत्वप्रकारकज्ञात-
तावत्त्वात् यन्नैवं तन्नैवम् इति ( नील० प्रामा० पृ० ३५) । मुरारि मिश्र-
मतं तु अनुष्यबसायेन ज्ञानं गृह्यते इति । सर्वेषामपि मते तज्ज्ञानविषयक-
ज्ञानेन तज्ज्ञानप्रामाण्यं गृह्यते । विषयनिरूप्यं हि ज्ञानम् । अतो
ज्ञानवित्तिवेद्यो विषयः (मु० गु० ) इति । तदर्थश्च विषयनिरूप्यं
विषयज्ञानजन्यसाक्षात्कारविषयीभूतम् इति ( म० प्र० पृ० ६९ )।
इदमत्र तत्त्वम् । गुरुमते घटत्वेन घटमहं जानामि इत्याद्याकारकं व्यवसा-
यात्मकमेव सर्वे ज्ञानम् । तच स्वप्रकाशम् । मितिमातृमेयैतन्त्रयविषयत्वा-
त्रिपुटीत्युच्यते । स्वप्रकाशसामर्थ्यादेव स्वात्मानमिव स्ववृत्तिप्रामाण्यं स्वत
एष गृह्णाति इति । भट्टमते अयं घटः इति ज्ञानानन्तरं घटे ज्ञाततानामकं
फलं भवति । ततो ज्ञातो घटः इति प्रत्यक्षम् । पश्चात्तया ज्ञाततया
ज्ञानमात्रस्यातीन्द्रियत्वाज्ज्ञानं तनिष्ठप्रामाण्यं चानुमीयते इति । मिश्रमते
च अयं घटः इत्याकारकज्ञानानन्तरं घटत्वेन घटमहं जानामि इति
ज्ञानविषयकलौकिकमानसमुत्पद्यते । तेन प्रामाण्यस्य ग्रहणम् । घटमहं
जानामि इत्यनुष्यवसायस्तु घटं घटत्वं समवायं च विषयी कुर्वनात्मनि
प्रकारीभूतघटमात्मानं तत्संबन्धीभूतव्यबसायं विषयीकरोति । एवं
पुरोवृत्तिप्रकार संबन्धस्यैव ( पुरोवर्तिनि यः प्रकारसंबन्धः तद्घटितस्यैव )
प्रमात्वपदार्थत्वेन खत एव प्रामाण्यं गृह्णाति ( नील० ) ( सि० च०