2023-02-20 00:55:55 by ambuda-bot
This page has not been fully proofread.
FEW
न्यायकोशः ।
"कलौकिक प्रत्यक्षस्य स्वनिष्ठप्रामाण्यविषयकतया स्वजन्यस्व विषयकप्रत्यक्ष-
: सामग्री स्वनिष्ठप्रामाण्यनिश्चायिका भवति इति मिश्रा आहुः । ज्ञानस्या-
तीन्द्रियतया प्रत्यक्षासंभवेन स्वजन्यज्ञाततालिङ्गकानुमितिसामग्री स्वनिष्ठ-
प्रामाण्यनिश्चायिका भवति इति भट्टा आहुः ( मू० म० १ प्रामा०
पृ० १२६ ) । तदप्रामाण्याग्राहकेत्यत्र पदप्रयोजनमित्थम् । नैयायिकमते
प्रमात्वमनुमानेन इदं ज्ञानं प्रमा इत्याप्तवाक्येन च गृह्यते इति सिद्ध-
साधनम् । तद्वारणाय यावत् इति विशेषणम् । अनुमानं तु इदं ज्ञानं
प्रमा समर्थप्रवृत्तिजनकत्वात् इति । वस्तुतस्तु यावत् इति ग्रहस्य विशेष-
णम् । तथा च ज्ञानग्राहकसामग्रीजन्ययावग्रहविषयत्वम् इति फलितम् ।
इदं ज्ञानमप्रमा इति ज्ञानेन व्यवसायनिष्ठप्रामाण्याविषयीकरणात् बाधाख्यो
दोषः । तद्वारणाय अप्रामाण्याग्राहिका इति विशेषणं दत्तम् । तथा च
तादृशज्ञानसामग्र्याः साध्यकोट्यनिविष्टत्वात् तथा प्रामाण्यस्याग्रहणेपि न
बाधः इति भावः । ज्ञाननिष्ठाप्रामाण्येत्यत्र ज्ञानं तु यादृशं प्रामाण्यं
प्रकृतानुमितावुद्देश्यं तादृशप्रामाण्याश्रयः इति विज्ञेयम् । तेन इदं ज्ञानम-
प्रमा इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्याप्रामाण्याग्राहकत्वाभावेपि न
स्वतस्त्वहानिः ( त० दी० ) ( नील० प्रामा० पृ० ३५) । प्रामाण्ये
स्वतस्त्वं नाम यावत्स्वाश्रयविषयकज्ञानप्राह्यत्वम् । प्रामाण्याश्रयविष-
यकज्ञानं च स्वप्रकाशं तदेव इति गुरव आहुः । ज्ञानग्राहकातिरिक्तान-
पेक्षत्वम् यावत्स्वाश्रयानुमितिग्राह्यत्वम् । प्रामाण्याश्रयानुमितिर्ज्ञातता-
लिङ्गका समर्थप्रवृत्तिलिङ्गकापि इति भट्टा आहुः । मिश्रमते स्वतस्त्वं च
प्रामाण्यग्रहप्रतिबन्धकाभावकालीनयावत्खाश्रयानुव्यवसायग्राह्यत्वम् ( त०
प्र० ख० ४ पृ० १३२ ) ( म० प्र० प्रामा० पृ० ७० ) । प्रामाण्य -
ग्रह प्रतिबन्धकाभावकालीन प्रामाण्याश्रयीभूतज्ञानग्राहकसामग्रीग्राह्यत्वं वा ।
अथवा विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वम् । इदं स्वतस्त्वं
च मुरारिभट्टानां मते उत्पद्यते ( कु० १ ) ( सर्व ० पृ० २८३ जैमि० )
( त० भा० ४ ) (सि० च० पृ० ३४ ) । उत्पत्तौ प्रामाण्यस्य स्वत-
स्त्वं नाम कार्यकारणादेव कार्येण सहोत्पत्ति: ( अथर्वभाष्य० पृ० १२)