2023-02-20 00:55:55 by ambuda-bot
This page has not been fully proofread.
यायकोश ।
-
मध्ये प्रथमोद्दिष्टस्य प्रमाणस्याधीन इतरेषां निश्चय इति प्रमाणतत्रनिश्रय
आवश्यकः । स च प्रमात्वनिश्चयं विना न भवतीति प्रमात्वनि श्रद्रोपाय
इदानीं चिन्त्यते ( चि० १ प्रामा० पृ० ११४-११७) । अत्र
बिप्रतिपत्तिः प्रमात्वं स्वतो ग्राह्यं परतो वा इति । अन्यत्र त्वेचं विप्रति-
पत्तयः प्रदर्शिताः । ज्ञानप्रामाण्यं तदप्रामाण्याप्राहकयावज्ञानग्राहक-
सामग्रीग्राह्यम् न वा इति । तज्ज्ञानविषयकज्ञानाजन्यज्ञानप्राह्यम् न वा
इति । स्वाश्रयग्राहकेण गृह्यत एव न वा इति । स्वाश्रयेण गृहाल एव
नवा इति । घटोयम् इति ज्ञानप्रामाण्यमेतज्ज्ञानग्राह्यम् न वा
इति । एतज्ज्ञानग्राहकमात्र ग्राह्यम् न वा इति ( चि० १ प्रामाश्र पृ०
१२१ - १२६ ) । ज्ञानप्रमात्वस्य स्वतो ग्राह्यत्वं च स्वत एव ( स्वकीयेभ्य
एब ) स्वजनक सामग्री स्वजन्यप्रत्यक्षसामग्री स्वजन्यज्ञाततालिङ्ग कानुमिति-
सामग्री एतदन्यतमज्ञानग्राहक सामग्रीग्राह्यत्वम् । अत्र स्वजन्य इति
पदद्वयं क्रमेण स्वप्रत्यक्षस्य ज्ञाततायाश्च विशेषणम् । पञ्चम्या जन्यस्वमर्थः
( मू० म० १ प्रामा० पृ० १२६ ) । गुरुभट्टमुरारि मिश्राणां मत-
।
त्रयसाधारणं स्वतस्त्वं च तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्य-
त्वम् ( त० दी० प्रामा० पृ० ३४ ) ( त० कौ० पृ० १८) ।
तदर्थस्तु ज्ञाननिष्ठाप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री
इन्द्रिय सैनिकर्ष परामर्शानुव्यवसायादिरूपा तज्जन्यग्रहविषयत्वम् । स च
ग्रहः ( प्राथमिकज्ञानग्रहः ) गुरुमते व्यवसायः । भट्टमते ज्ञाततालिङ्ग-
कानुमितिः । मुरारि मिश्रमते अनुव्यवसाय: (नील० प्रामा० पृ० ३५ )
तत्तद्धर्मप्रकारकज्ञानग्राहकसामग्रीजन्यग्रहत्वव्यापकविषयिताप्रतियोगित्वम्
इति निष्कर्षः । इदमेव ज्ञप्तौ स्वतस्त्वमित्युच्यते ( नील० पृ० ३४ )
(सि० च० पृ० ३३ ) । यया कारणसामग्र्या ज्ञानं गृह्यते तयैव तद्गतं
प्रमात्वमपि गृह्यत इति स्पष्टार्थः । अत्र त्रीणि मतानि क्रमेणोक्तानि ।
तथाहि । ज्ञानग्राहकं च सर्वमते घटमहं जानामि इत्याकारकमेव ज्ञानं
भवति । ज्ञानस्य स्वस्यैव स्वप्रामाण्य विषयकतया स्वजनकसामान्येव
स्वनिष्ठप्रामाण्य मिश्रायिका भवति इति गुरव आहुः । खोत्तरवर्तिस्वविषय -
kke