This page has not been fully proofread.

न्यायकोशः ।
 
प्रमाणान्तरम् -( स्वतनं प्रमाणम्) यदसाधारणं सहकारि समासाद्य
मनो बहिर्गोचरां प्रमां जनयति तत् । यथा प्रत्यक्ष इन्द्रियं प्रमाणान्त-
रम् । संशयस्वप्नौ तु न प्रमे इति न निद्रादेः प्रमाणान्तरत्वम् (चि०२
पृ० ३५ ) ( कु० टी० ४) ।
 
J
 
-
 
प्रमाता - १ यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः सः ( वात्स्या० १।९।१
प्रस्तावना० ) । स च प्रमाता आत्मा ( प्रशस्त० पृ० २६ ) । यथा चैत्रो
घटं प्रमिनोतीत्यादौ चैत्रः प्रमाता । अत्र प्रमातृत्वं च प्रमासमषायित्वम् ।
एतच्चाकारणत्वेपि प्रमाया ईश्वरस्य सिद्धम् ( कु० टी० ४।५ ) ।
अत्रेदं बोध्यम् । प्रमाता स्वतन्त्रः । स्वातत्र्यं च कारकफलोपभोक्तृत्वम्
( न्या० बा० १ पृ० ९ ) इति । २ शुद्धचेतनो वृत्तिसाक्षी प्रमाता
इति सांख्या आहुः । ३ मायावादिनस्तु अन्तःकरणवृत्ति प्रतिबिम्बि
तम् तदवच्छिन्नं वा चैतन्यमेव प्रमाता इत्याहुः (वाच० ) ।
प्रमात्वम् – तद्वति तत्प्रकारकज्ञानत्वम् ( गौ० वृ० १।१।४) । तद्वति तद्वै-
शिष्ट्यज्ञानत्वं वा ( चि० १ प्रामा० पृ० १७०) । आद्यलक्षणे दलद्वय-
स्यार्थश्च तद्वनिष्ठविशेष्यता निरूपिततन्निष्ठप्रकारताशाल्यनुभवत्वम् ( त०
प्र० ख०१ पृ० १४ ) ( वाक्य० ) । वस्तुतस्तु तद्वतीत्यत्रावच्छिन्नत्वमेव
सप्तम्यर्थः । अन्वयश्चास्य विशेषियतासंबन्धेन तत्प्रकारकत्वे । तथा च
विशेष्यितासंबन्धेन तदवच्छिन्ना या तत्प्रकारिता तच्छाल्यनुभवस्वं
• तत्प्रमात्वम् इति फलितम् । इदमत्रैतत्प्रकारकम् इति प्रतीत्या विशेष्य-
स्यापि विशेष्यितासंबन्धेन तत्प्रकारितायामवच्छेदकत्वात् लक्षणसमन्वयः ।
रङ्गरजतयोः इमौ रजतरङ्गौ इति विपरीतभ्रमे च रजतावच्छिन्नं न
 
: रजतत्व प्रकारकत्वम् अपि तु रङ्गावच्छिन्नम् इति न तत्रातिव्याप्तिः
( मू० म० प्रामा० सिद्धान्त० पृ० ४०३ ) । अथवा विशेष्य-
तावच्छेदेन तद्धर्मावच्छिन्न प्रकारितासंबन्धेन तद्धर्मवत्त्वम् । विशेष्यता-
संबन्धेन तद्विशिष्टत्वे सति तद्वत्त्वम् । विशेष्यतासंबन्धेन तद्वदवच्छिन्ना
या प्रकारिता तच्छाल्यनुभवत्वमिति वा ( मू० म० १ ) । तान्निकास्तु
तद्वद्विशेष्यकत्वावच्छेदेन तत्प्रकारकत्वम् । तेन वह्निगुञ्जयोर्गुञ्जावगाहि-