2023-02-20 00:55:54 by ambuda-bot
This page has not been fully proofread.
त्यायकोशः ।.
.: शब्दश्चेति द्वे प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्याः प्राहुः ।
एतन्मते त्वनुमानं श्रुत्यनुसारित्वेन प्रमाणम् न तु स्वातन्त्र्येणेति बोध्यम् ।
मानुषदैवभेदेन द्विविधं प्रमाणम् ( याज्ञ० २।११६ ) इति व्यवहार-
शास्त्रज्ञा आहुः । प्रत्यक्षमनुमानं शाब्दं चेति मन्वादयः आहुः ।
अत्र अलौकिके विषये वेदो ब्रह्मसूत्रं भगवद्गीता श्रीमद्भागवतमिति
प्रमाणचतुष्टयमिति वाल्लभा मन्यन्ते । प्रत्यक्षमनुमानमाप्तवचनमिति त्रीणि
प्रमाणानि इति सांख्या योगिनो मायावादिवेदान्तिनश्चाद्भुः । तत्र सांख्य-
पातञ्जलमायावादिमते अन्तःकरणवृत्तीनां पौरुषेयचित्तवृत्तिप्रकाशरूप-
बोधे कारणत्वम् । अन्तःकरणवृत्तिषु च ज्ञानत्वारोपेण तत्करणत्वमिन्द्रि-
याणाम् इति विवेकः ( सां प्र० भा० ) ( पात० सू० ) । प्रत्यक्षा-
नुमानोपमानानि त्रीणि इति नैयायिकैकदेशिन आहुः । प्रत्यक्षानुमानो-
पमानशब्दाश्चत्वारि प्रमाणानि इति गौतमप्रधाना नैयायिका आहुः ।
शब्दारप्रत्येमि इति विलक्षणप्रतीतेर्व्याप्तिनिरपेक्षादाकाङ्क्षा दिज्ञानादुत्पत्तेः
तत्करणतया शब्दस्यातिरिक्तं प्रामाण्यं सिद्ध्यति इति नैयायिक सिद्धान्तः ।
तत्र शब्दस्य स्वतन्त्रप्रामाण्यमुक्तम् आप्तोपदेशसामर्थ्याच्छब्दादर्थसंप्रत्ययः
( गौ० २।१।५२) इति । प्रत्यक्षानुमानोपमानशब्दा अर्थापत्तिश्चेति
पञ्च प्रमाणानि इति प्राभाकरा आहुः । प्रत्यक्षानुमानोपमानशब्दा
अर्थापत्तिरनुपलब्धिश्चेति षट् प्रमाणानि इत्यपरे भट्टा वेदान्तिभेदाश्चादुः ।
संभवैतिह्ये अप्यतिरिक्त प्रमाणे इति पौराणिका आहुः । चेष्टाप्यतिरिक्तं
प्रमाणम् इति तान्त्रिका अमन्यन्त ( ता० र० श्लो० ८ - ११)
( सि० च० १ पृ० २०) । अनुभूतिरपि प्रमाणम् इति प्राभाकरा
आहुः । केचित्तु शकुनलिप्यादिकमपि प्रमाणान्तर मिच्छन्ति । उपक्रमो-
!
C
:
★
नुमानमेव नातिरिक्तं प्रमाणम् इति ( प्र० १० १०५ ) ( प्र० च०
पृ० ४४ ) । २ प्रमा ( यथार्थज्ञानम् ) । यथा स्वतः प्रामाण्यम्
परतः प्रामाण्यम् इत्यादौ प्रमाणपदार्थः
प्रमा । ३ सत्यवादी ।
४ इयत्ता । ५ परिच्छेदः । ६ हेतुः । ७ प्रमाता ( मेदिनी० ) ।
८ विष्णुः ( विष्णुस० ) ।