This page has not been fully proofread.

न्यायकोशः ।
 

 
विलम्बेन प्रमोत्पत्तिः । अतः इन्द्रियसंयोगादिरेब करणम् न प्रमात्रादि
( त० मा० पृ० ५ ) । [ [ ] साधनाश्रयाव्यतिरिक्तत्वे सति प्रमा-
व्याप्तम् । अनेन च प्रतितन्त्र सिद्धान्तसिद्धं परमेश्वरप्रामाण्यं संगृहीतम्
( सर्व० पृ० २३५ अक्ष० ) ( कु० टी० ४/५ ) । अत्र सूत्रम् मन्त्रायु-
वेदप्रामाण्यवच तत्प्रामाण्यमाप्तप्रामाण्यात् ( गौ० २११/६८) इति ।
[घ ] प्रमायोगव्यवच्छिन्नम् । प्रमया सहायोगव्यवच्छेदेन संबन्धि ।
[ ङ ] अनधिगतार्थगन्तृ प्रमाणम् इति भट्टमीमांसका आहुः ( सि०
च० १ पृ० २० ) ( कु० टी० ४/५ ) ( तत्त्वसंख्या ० ) । तदसत् ।
एकस्मिन्नेष घटे घटोयम् घटोयम् घटोयम् इति धारावाहिकप्रत्ययस्थले
अधिगतार्थगन्तॄणाम प्रामाण्यापत्तेः ( सि० च० १ पृ० २० ) ( त०
भा० १ पृ० ५ ) । अत्र विवदन्ते । अविसंवादि विज्ञानं प्रमाणमिति
सौगताः । अनुभूतिः प्रमाणं सा स्मृतेरन्येति केचन ॥ अज्ञातचरतत्त्वार्थ-
निश्चम्यक्रमथापरे । प्रमेयव्याप्तमपरे प्रमाणमिति मन्वते ॥ प्रमानियत-
सामग्रीं प्रमाणं केचिदूचिरे ( ता० २० लो० ५-७ ) इति । न्यायनये
प्रमाणानि चत्वारि । प्रत्यक्षम् अनुमानम् उपमानम् शब्दच ( गौ०
११११३ ) इति । यत्प्रमाणं तत्प्रत्यक्षादिचतुष्टयान्यतमम् इति वाक्यार्थः ।
तेन न्यूनाधिकसंख्याव्यवच्छेदलाभः ( म०प्र० १ पृ० ७ ) । अत्रेदं
बोध्यम् । नित्यप्रमाया आश्रयः ( समवायी ) प्रमाणं ईश्वरः । अनित्य-
प्रमायास्तु करणं प्रत्यक्षादिचतुष्टयम् ( ता० र० श्लो० ४) इति ।
[च ] प्रमीयते परिच्छिद्यते अनेनेति प्रमाणम् । तच्च द्विविधम् मानुषं
दैनिकं च ( मिताक्षरा अ० २ लो० २२) । प्रकारान्तरेण प्रमाणं
द्विविधम् । शब्दोपजीवि शब्दानुपजीवि च ( कु० टी० ) । इदानीं
मतभेदेन प्रमाणसंख्या कथ्यते । प्रत्यक्षमेकमेव प्रमाणम् इति चार्वाका
बाडुः । प्रत्यक्षमनुमानं चेति द्वे प्रमाणे इति कणादप्रधाना वैशेषिकाः
मन्यन्ते । एतन्मते शब्दोपमानयोरनुमानविधयैव प्रामाण्यम् न तु स्वात-
अमेति बोध्यम् ( त० कौ० पृ० ८) । अत्र भाष्यम् । शब्दादी-
बामप्यनुमानेन्वर्भावः । समान विधित्वात् । यथा प्रसिद्धसमयस्यासंदिग्ध-