This page has not been fully proofread.

न्यायकोशः ।
 
यज्ज्ञानं तत्प्रमात्वानधीनप्रमात्वकत्वम् ( म० प्र० १ पृ० ४ ) । स्मृतौ
तु तादृशपूर्वानुभषप्रमास्वाधीनप्रमात्वकत्वेन स्मृतिव्यावृत्तिः । अत्रोभयत्र
स्वपदं फलीभूतज्ञानपरमेव । अत्रेयमभिसंधिः । प्रमात्वस्य स्मृतिसाधार-
णत्वे स्मृतिकारणानुभवस्यापि प्रमाणान्तरत्वापत्त्या शास्त्रे प्रमाणव्यवहा-
रौपयिकं रूपमनुभवत्वघटितमेवानुमन्यन्ते तान्त्रिका: ( दि० गु०
पृ० २११ ) । अथ वा यज्जातीयविशिष्टज्ञानत्वावच्छेदेन समानाकार-
निश्चयोत्तरत्वं तज्जातीयान्य यथार्थज्ञानस्यैवागृहीतग्राहित्वेन प्रमात्वम् ।
 
1 अज्ञायमानकरणजन्यतत्त्वानुभवः
 
अत एव धारावाहिप्रत्यक्षव्यक्तीनां समानाकारग्रहोत्तरवर्तिस्वेपि न
तासां प्रमात्वहानि: । हानिस्तु समानाकारानुभवसमुत्थानां स्मृतीना-
मिति । अयं चात्र विशेषः
प्रत्यक्षप्रमा । ज्ञायमानकरणजन्य तत्त्वानुभवोनुमितिप्रमा इति । [ङ ]
विषयताश्रयावृत्त्यप्रकारकानुभवः । [च ] यत्प्रकारिका या विषयता
तत्प्रकारसमानाधिकरणविषयताकः स्वप्रकार समानाधिकरणविषयताको
वा अनुभवः । अत्र प्रकारपदं धर्मपरम् । तद्धर्मसमानाधिकरणतद्विषय-
ताक इत्यर्थ: । एतलक्षणद्वये इदं रजतं रङ्गं च इत्यादौ प्रकारभेदेन
विषयताभेदाभावेपि न क्षतिः इति ध्येयम् । अतिरिक्तविषयतापक्षे
( विशेष्यतावच्छेदकतातिरिक्ता प्रकारता विषयतापि च सविषयका इति
पक्षे ) इदं लक्षणद्वयं ( ङ च इत्यत्र स्थितम् ) स्वीकृतम् इति ज्ञेयम्
( मू० म० १ प्रामा० पृ० ४१६ ४१९ ) । [ छ ] विशेष्यनिष्ठा-
त्यन्ताभावाप्रतियोगिप्रकारकविषयताप्रतियोगी [ ज ] विशेष्यनिष्ठा-
त्यन्ताभावप्रतियोगिप्रकारा नवच्छिन्नविषयता प्रतियोगी वा [झ ] वि-
षयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकार कविषयत्वाप्रतियोगी वा
 
[ञ ] विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नविष-
यताप्रतियोगी वा अनुभव: (चि० १ प्रामा० पृ० ४००-४२०)।
एकधर्मावच्छिन्नतत्तदभावोभयवन्निष्ठ विशेष्यताकं द्रव्यं रजतम् इत्यादि-
ज्ञानं न लक्ष्यम् इति मते छ ज इत्यादीनि लक्षणानि ( मू० म० १
प्रामा० पृ० ४२० ) । वृत्तीद्धो बोधः प्रमा इति मायावादिनो वदन्ति ।
अनधिगतार्थस्य वस्तुनोवधारणम् इति सांख्या आहुः । पुरुषनिष्ठबोध: