This page has not been fully proofread.

-- १ सामान्यधर्मव्याप्यावान्तरधर्मविशिष्टः । क्या थटो इम्मेदः
इत्यादौ । २ स्वसमभिव्याहृतपदार्थताबच्छेदकचर्मः । यथा भनित्या
पृथिवी त्रिविधा शरीरेन्द्रियविषयभेदात् इत्यादौ ( वाक्य० १ पृ० ३) ।
३ अन्योन्याभाषः । अत्र भेदप्रभेदशब्दयोरेकार्थकत्वम् इत्यभिप्रायेणे-
दमुक्तम् इति विशेयम् ।
 
0
 
प्रमा – ( अनुभवः ) [ क ] यदर्थविज्ञानं सा प्रमा ( वात्स्या० १/१/१
प्रस्तावना० ) । सा च द्रव्यादिविषयं ज्ञानम् ( यथार्थम् ) ( प्रशस्त
पृ० २६ ) । लक्षणं च वक्ष्यमाणं प्रमात्वमेव इति विज्ञेयम् । प्रमात्वस्य
स्वतोप्राह्यत्वादिविचारः प्रमात्वशब्दे दृश्यः । [ ख ] तत्त्वानुभवः ।
[ग] यत्र यदस्ति तत्र तस्यानुभवः । तद्वति तत्प्रकारकानुभवो वा
( चि० १ पृ० ४०० ) ( त० सं० ) । फलितार्थस्तु तद्वद्विशेष्यक-
त्वावच्छिन्नतत्प्रकारकताशाल्यनुभवः इति । विशेषियतासंबन्धेन तदव-
च्छिन्ना या तत्प्रकारिता तच्छाल्यनुभवः इति वा । तेन रजतरङ्गयोः इमे
रङ्गरजते इत्यादिविपरीतसमूहालम्बनभ्रमे नातिव्याप्तिः ( मू० म० १
प्रामा० पृ० ४०३) । निर्विकल्पकज्ञानं तु प्रमा अप्रमा एतद्व हिर्भूतमेव ।
व्यवहारानङ्गत्वात् ( चि० १ प्रामा० पृ० ४०२ ) । एवं च निर्वि-
कल्पकं प्रमालक्षणालक्ष्यमेवेति तस्य प्रकारिता विशेष्यिता दिशून्यत्वेपि न
तत्राव्याप्तिशङ्का इति भावः । [घ ] यथार्थानुभवः ( ता० २०)
( त० मा० ) ( न्या० म० १ पृ० १ ) ( त० सं० ) ( त० कौ०
पृ० ७ ) । यथा रजते इदं रजतम् इति प्रत्यक्षं प्रमा ( त० सं० )।
अत्र याथार्थ्य च तद्वति तदवगाहित्वम् (न्या० म० १ ) ( त० सं० ) ।
तद्विशेष्यकत्वे सतीत्यर्थः । भवति हि रजते इदं रजतम् इति ज्ञानं रज-
तत्ववति रजतत्वावगाहि इति लक्षणसमन्वयः ( न्या० म० ) ( त०
प्र० १ पृ० १० ) । अत्राहुरुदयनाचार्याः यथार्थानुभवो मानमन-
पेक्षतयेष्यते ( कु० ४।१ ) इति । अत्र मानशब्दस्यार्थः प्रमा इति
ज्ञेयम् । अत्र प्रयोगश्चेत्थम् । यथार्थानुभव: प्रमापदवाच्यः अनपेक्ष-
त्वात् इति । अनपेक्षत्वं च स्वसमानाधिकरणं स्वसमान विषयकं च