This page has not been fully proofread.

न्यायकोचः ।
 
धातूनामुत्तरदेशसंयोगानुकूलव्यापारानुकूलव्यापारार्यकानां द्विकर्मकत्वम् ।
संयोगस्य फलतावच्छेदकः संबन्धो प्रामनिष्ठः । तदनुकूलव्यापारश्चा-
जानिष्ठः । प्रधानव्यापारजन्यफलाश्रयत्वादजा प्रधानम् । तत्र लादयो
भवन्ति । प्रधानकर्मण्याख्येये लादीनाडुर्द्विकर्मणाम् इति भाष्योक्तेः ।
गां दोग्धि पय इत्यत्र दुहेरन्तः स्थितद्रवद्रव्यनिष्ठविभागानुकूल व्यापारानु-
कूलव्यापारार्थ कत्त्रे गोपयसोरुभयोरपि कर्तुरीप्सिततमं कर्म इति सूत्रेण
कर्मत्वम् । तत्र गोः कर्तृव्यापारजन्यफलाश्रयत्वात् प्रधानकर्मत्वम् । पयसः
कर्तृव्यापारप्रयोज्य विभागफलाश्रयत्वात् गौणकर्मत्वम् । अत्र गोर्विभागा-
श्रयत्वेन तु न कर्मत्वम् । पयोनिष्ठविभागीयसंबन्धस्यैव फलतावच्छेदक-
त्वात् । तत्त्वेनानुद्देश्यत्वाच्च । उक्तप्राधान्यं च गोः इति तत्र लादयः । एवम्
अन्येषामपि याचिदण्ड्यादीनां द्विकर्मकत्वं बोध्यम् । तत्र निदर्शनम् । देव-
दत्तेन ग्राममजा नीयते गौर्दुह्यते पय इत्यादौ च अजाया गोश्च प्रधा-
नकर्मत्वेन लादिनाभिहितत्वात्तद्वाचकपदोत्तरं प्रथमैव भवति न तु
द्वितीया इति (ल० म० पृ० ९० ) । अत्रायं विशेषः । कर्तुरीप्सित-
तमं कर्म इत्यनेन गोः प्रधानकर्मत्वम् । तत्र लादयः । अकथितं च
( पा० सू० १/४/५१ ) इति सूत्रेण तु गोरपादानत्वाद्यविवक्षायां
पूर्वोक्तप्राधान्यानाश्रयत्वादप्रधानकर्मत्वं विधीयते । गौणकर्मणि गवादौ
लादयो भवन्ति । अप्रधाने दुहादीनां प्यन्ते कर्तुश्च कर्मणः इति
प्रामाण्यात् । अत्र पक्षे द्रवद्रव्यविभागानुकूलव्यापारमात्रं दुहेरर्थः इति
( ल० म० सुब० कार० २ पृ० ९१ ) ( ग० व्यु० कार० २
पृ० ४४ ) । अत्रायं भावः । तादृशविभागानुकूलव्यापारस्य कर्तृनिष्ठ-
स्वेन विभागस्य तु पयोनिष्ठत्वेन च गोः कर्मत्वाप्राप्तौ अकथितं च
इत्यनेन क्रियाजन्यफलशालित्वादन्यदेव गौणं कर्मत्वं विधीयते इति ।
प्रधानजय: - (मधुप्रतीक सिद्धि ) प्रकृतिविकारेषु सर्वेषु वशित्वम् ( सर्व०
सं० पृ० ३८५ पातञ्ज० ) ।
 

 
;
 
प्रधानम् – १ मुख्यम् । २ श्रेष्ठम् । ३ प्रशस्तम् । ४ सचिवः । ५ सेना-
पत्यभ्यक्षः । ६ मूलप्रकृतिः इति सांख्या आहुः ।