This page has not been fully proofread.

न्यायकोशः ।
 
त्वासिद्धिः । विपक्षमात्राखावृत्यभावात्सोपाधिकत्वाच । यथा गोर्लक्षणस्य
पशुत्वस्य महिष्यादाबतिव्याप्तिः । गोत्वे हि सानादिमत्वं प्रयोजकं न
पशुत्वम् । (त० भा० )
 
अतिसामान्यम् - यद् विवक्षितमर्थमाप्नोति चात्येति च तत् । यथा ब्राह्म-
णत्वं विद्याचरणसंपदं कचिदामोति कचिदत्येति । (वात्स्या० १।२।५४ )
अतीतकालः – १ कालात्ययापदिष्टवदस्यार्थोनुसंधेयः ( गौ० वृ० १ ।
४९ ) । २ भूतकालवदस्यार्थोऽनुसंधेयः ।
 
अंतीन्द्रियगुणत्वम् -[ क ] लौकिकसाक्षात्कारविषयगुणत्वन्यूनवृत्तिसं-
स्कारत्वान्यधर्मसमवाय्यन्यगुणत्वम् । (दि० गु० )
 
[ख] लौकिकप्रत्यक्षाविषयगुणत्वसाक्षाद्याप्यजातिमत्त्वम् ( प० मा० )
( ल० व० ) । सा च जातिर्गुरुत्वत्वम् अदृष्टत्वमित्यादिः ।
 
अतीन्द्रियत्वम् – इन्द्रियजन्यलौकिकप्रत्यक्षाविषयत्वम् । यथा कालस्याती-
न्द्रियत्वम् । ( स्व० )
 
अत्यन्तमहती – श्रवणद्वादशीयोगे बुधवारो भवेद्यदि । अत्यन्तमहती नाम
द्वादशी सा प्रकीर्तिता ॥ ( पु० चि० पृ० २१५)
 
१ साघारणानैकान्तिकत्वमपि संभवति ।
 
२ इदं च व्यावर्तकत्वेन विवक्षितं चेत्सव्यभिचार एवान्तर्भवतीति बोध्यम् ।
यथा अयं विद्याचारसंपन्नो ब्राह्मणत्वादिति ।
 
३ अत्रातीतत्वं च -१ चरमकृतिध्वंसः ( न्या० म०४ ) । २ [क] वर्तमानध्वंस:
( ग० व्यु० ल० • ) । [ ख ] वर्तमानकालवृत्तिध्वंसप्रतियोगित्वम् ( वाक्य ० ) ।
यथा दुर्दिनमतीतमित्यादौ दुर्दिनस्यातीतस्वम् ।
 
४ अतीन्द्रियगुणाश्च गुरुत्वम् अदृष्टं ( धर्माधर्मौ ) भावना स्थितिस्थापकवेति ।
( मा० प० गु० )
 
५ अत्र साक्षायाप्यत्वं च संस्कारत्वान्या या गुणत्वव्याप्या जातिस्वदद्व्याप्यत्वे सति
गुणवृतित्वम् । (प० मा० •)